पूर्वम्: ६।१।२११
अनन्तरम्: ६।१।२१३
 
सूत्रम्
चङ्यन्यतरस्याम्॥ ६।१।२१२
काशिका-वृत्तिः
चङ्यन्यतरस्याम् ६।१।२१८

चङन्ते ऽन्यतरस्याम् उपोत्तमम् उदात्तं भवति। मा हि चीकरताम्, मा हि चीकरताम्। न माङ्योगे ६।४।७४ इत्यटि प्रतिषिद्धे हि च ८।१।३४ इति निघाते ऽदुपदेशातिति लसार्वधातुकानुदात्तत्वे इऋते चङ एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तो भवति। उपोत्तमग्रहणाद् द्व्यचो न भवति, मा हि दधत्।
न्यासः
चङ्यन्यतरस्याम्?। , ६।१।२१२

"मा हि चीकरताम्()" इति। "सन्वल्लघुनि चङ्परेऽनग्लोपे" ७।४।९३ इत्यभ्यासस्येत्त्वम्()। "अटि प्रतिषिद्धे" इति। यद्यटः प्रतिषेधो यस्य तस्यैव स्वरः स्याद्धात्वकारस्य। "हि च" इति "निघातः" इति। प्रतिषिद्ध इत्यपेक्षते। यदि निघातो न प्रतिषिध्येत, तदा चङन्तस्योदात्तस्याभाव एव स्यात्()। "मा हि दधत्()" इति। "विभाषा धेट्श्व्योः" ३।१।४९ इति च्लेश्चङ्()॥