पूर्वम्: ६।१।२१३
अनन्तरम्: ६।१।२१५
 
सूत्रम्
अन्तोऽवत्याः॥ ६।१।२१४
काशिका-वृत्तिः
अन्तो ऽवत्याः ६।१।२२०

संज्ञायाम् इत्येव। अवतीशब्दान्तस्य संज्ञायाम् अन्त उदात्तो भवति। अजिरवती। खदिरवती। हंसवती। कारण्डवती। ङीपः पित्त्वादनुदात्तत्वं प्राप्तम्। अवत्याः इति किम् उच्यते, न वत्या इत्येवम् उच्येत? न एवं शक्यम् इह अपि स्यात्, राजवती। स्वरविधौ नलोपस्य असिद्धत्वान् न अयम् अवतीशब्दः। वत्वं पुनराश्रयात् सिद्धम्।
न्यासः
अन्तोऽवत्याः। , ६।१।२१४

"अजिरवती" इत्यादि। पूर्ववन्मतुप्()। "पित्त्वादनुदात्तत्वं प्राप्तम्()" इति। अतसतस्यायमपवाद इति शेषः। अथावत्या इत्युच्यमाने राजवतीत्येतस्मान्न भवति, अस्ति ह्रेतदपि नलोपे कृतेऽवतीशब्दान्तम्()? इत्याह--"स्वरविधौ" इत्यादि। कथमुदाहरणम्(), यावत मतोर्वत्वस्यासिद्धत्वादत्रादतीशब्दान्तत्वं नास्ति? इत्याह--"वत्वं पुनः"--इत्यादि। पुनःशब्देन नलोपाद्विशेषं दर्शयति। लोपो ह्रसिद्धः, वत्वं पुनः सिद्धम्()। कुतः? आश्रयात्()। आश्रयः स्वरविधौ निमित्तत्वेनोपादानमित्यर्थः। अवतीशब्दस्यान्तोदात्तत्वं ब्राउवता वत्वमाश्रितम्(), तस्मादाश्रयात्तस्य सिद्धत्वम्(), अन्यथैव वचनमनर्थकं स्यात्। न हि वत्वस्य सिद्धत्वमन्तरेणावतीशब्दान्तं किञ्चिदस्ति॥