पूर्वम्: ६।१।३८
अनन्तरम्: ६।१।४०
 
सूत्रम्
वेञः॥ ६।१।३९
काशिका-वृत्तिः
वेञः ६।१।४०

लिटि इत्यनुवर्तते। वेञ् तन्तुसन्ताने इत्यस्य धातोः लिति परतः सम्प्रसारणं न भवति। ववौ, ववतुः, ववुः। किति यजादित्वात् धातोः प्राप्तम् अकित्यपि लिट्यभ्यासस्य उभयेषाम् ६।१।१७ इत्यभ्यासस्य, अतः उभयं प्रतिषिध्यते।
न्यासः
वेञः। , ६।१।३९

बाल-मनोरमा
वेञः २४६, ६।१।३९

वेञः। "लिटि वयो यः" इत्यतो लिटीति, "न संप्रसारणे संप्रसारण"मित्यतो न संप्रसारणमिति चानुवर्तते।तदाह--वेञो नेति। अत्र कितीति नानुवर्तते। तदाह--ववाविति। णलि संप्रसारणनिषेधे "आदेच उपदेशे" इत्त्यात्वे "आत औ णलः" इत्यौभावे "वृद्धिरेची"ति वृद्धौ रूपम्। ववतुरिति। "आदेचः" इत्यात्त्वे "आतो लोपः"। एवं ववुः। भारद्वाजनियमात्थलि वेट्, वेञस्तासावनिट्कत्वात्। तदाह--वविथ ववाथेति। इट्पक्षे अकित्त्वेऽपि इट्परत्वादाल्लोप इति भावः। ववथुः वव। ववौ वविव वविम। क्रादिनियमादिट्। ववे इति। ववाते वविरे। वविषे ववाथे [वविढ्वे]। वविध्वे। ववे वविवहे वविमहे। वातेति। लुटि तासि आत्त्वम्। वास्यति वास्यते। वयतु वयताम्। अवयत् अवयत। वयेत् वयेत। ऊयादिति। आशीर्लिङि यासुटि कित्त्वात् "वचिस्वपी"ति संप्रसारणे पूर्वरूपे "अकृत्सार्वधातुकयो"रिति दीर्ग इति भावः। वासीष्टेति। आशीर्लिङि आत्मनेपदे, सीयुटि आत्त्वे रूपम्। वासीयास्ताम्। अवासीदिति। आत्त्वे कृते इट्पकौ। अवास् इ स् ईदिति स्थिते "इट ईटी"ति सिज्लोपः। अवासिष्टामित्यादि। आत्मनेपदे--अवास्त अवासातामित्यादि। अवास्यत् अवास्यत। व्येञ् संवरणे इति। ञित्त्वादुभयपदी। अनिट्। व्ययति व्ययते इति। शपि अयादेशः। णलादौ तु आत्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम्।

तत्त्व-बोधिनी
वेञः २१७, ६।१।३९

वेञः। लिटि किम्?। उतम्। उतवान्।