पूर्वम्: ६।१।४६
अनन्तरम्: ६।१।४८
 
सूत्रम्
क्रीङ्जीनां णौ॥ ६।१।४७
काशिका-वृत्तिः
क्रीइङ्जीनां णौ ६।१।४८

डुक्रीञ् द्रव्यविनिमये, इङध्ययने जि जये इत्येतेषां धातूनां एचः स्थाने णौ परतः आकारादेशो भवति। क्रापयति। अध्यापयति। जापयति।
न्यासः
क्रीङ्जीनां णौ। , ६।१।४७

"डुक्रीञ्? द्रव्यविनिमये" (धा।पा।१४७३) "इङ् अध्ययने" (धा।पा।१०४६) "जि जये" (धा।पा।५६१)। अनुपदेशार्थ आरम्भः। क्रापयतीत्यादावात्वे कृते "अर्त्तिह्यी" ७।३।३६ इत्यादिना पुक्()। किमर्थमिदमुच्यते, न "क्रप कुत्सायां गतौ" (धा।पा।७७१), "जप जल्प व्यक्तायां वाचि" (धा।पा।३९७,३९८), "आप्लु व्याप्तौ (धा।पा।१२६०) इत्यस्य चाधिपूर्वस्य णिचि कृते क्रापयतीत्यादिकं रूपं सिद्धम्(), अनेकार्थत्वाद्()धातुनां क्रोणात्याद्यर्थे क्रपादयो वर्त्तिष्यन्ते? उच्यते; क्रीणात्यादीनां णिचि प्रयोगान्तरनिवृत्त्यर्थम्()। अथ करोतेः" ईङ्? गतौ" (धा।पा।११४३) इत्यस्य ग्रहणं कस्मान्न विज्ञायते? उच्यते; करोतेस्तावन्न सम्भवति, एच इत्यधिकारात्()। अत एव वृत्तिकृता "एचः" इत्यनुवर्त्तितम्()। वचनसामथ्र्याद्वा तस्य हि वृद्ध्यैवात्त्वं सिद्धम्()? नैतदस्ति; नियमार्थहि स्यात्()--आत्त्वमेव, न पुना रपरत्वामिति? नैतदस्ति; "विधिनियमसम्भवे विधिरेव ज्यायान्()" (व्या।प।१३०) इति क्रीणातेरेव ग्रहणम्()। न करोतेः, तस्य नियमार्थत्वात्()। क्रीणातेस्तु विध्यर्थत्वात्()। "ईङ् गतौ" (धा।पा।११४३) इत्यस्यापि ग्रहणं न सम्भवति; जयतिना हरस्वान्तेन साहचय्र्यात्()। इङ्? ह्रस्वान्तो ग्रहीष्यते, न दीर्घान्तः; शब्दपरविप्रतिषेधात्()। जयतिना साहचय्र्यम्(), न क्रीणातिना। व्याख्यानतो वा विशेषोऽवसेयः॥
बाल-मनोरमा
क्रीङ्जीनां णौ ४२८, ६।१।४७

क्रीङ्जीनां णौ। "डु क्रीञ् द्रव्यविनिमये, "इङ् अध्ययने", "जि जये" एषां द्वन्द्वः। एच आत्त्वमिति। "आदेच उपदेशे" इत्तस्तदनुवृत्तेरिति भावः। क्रापयति जापयतीति। आत्त्वे पुक् लुङि अचिक्रपत् अजीजपत्। अध्यापयतीति। इङ आत्त्वे पुकि रूपम्। अधि इ इ अ त् इति स्थिते।

तत्त्व-बोधिनी
क्रीङ्जीनां णौ ३७२, ६।१।४७

क्रीङ्जीनाम्। "डुक्रीञ् द्रव्य विनिमये"। "इङ् अध्ययने"। "जि जये"। अचिक्रपत्। अध्यजीगपदिति। नाऽत्र णिज्निमित्तस्य गाङो द्वित्वे कर्तव्ये स्थानिवद्भावो, निषेधो वा शङ्क्यः, यत्राऽभ्यासोत्तरखण्डे आद्योऽवर्णोऽस्ति तत्रैव स्थानिवद्भावो, निषेधो वेत्युक्तत्वात्। इह तु गाङ् पूर्वं सतिहि द्वित्वे "अजादेर्द्वितीयस्य" इति णिच एव द्वित्वं भवेत्ततश्चह्परणिज्निमित्तो गाङ्, ततश्च प्रक्रयायां परिनिष्ठितरूपे वा अवर्णवदुत्तरखण्डं दर्लुभं, कीर्तयतिसाम्यादिति नोक्तशङ्कावकाशः।अध्यापिपदिति। पिशब्दस्यात्र दित्वम्।