पूर्वम्: ६।१।७४
अनन्तरम्: ६।१।७६
 
प्रथमावृत्तिः

सूत्रम्॥ एचोऽयवायावः॥ ६।१।७५

पदच्छेदः॥ एचः ६।१ ७७ अयवायावः १।३ अचि ७।१ ७४ संहितायाम् ७।१ ७०

समासः॥

अय् च अव् च आय् च आव् च अयवायावः, इतरेतरद्वन्द्वः

अर्थः॥

एचः स्थाने अय्, अव्, आय्, आव् इत्येते आदेशाः यथासङ्ख्यं अचि परतः भवन्ति, संहितायां विषये

उदाहरणम्॥

चयनम्, लवनम्, चायकः, लावकः
काशिका-वृत्तिः
एचो ऽयवायावः ६।१।७८

एचः स्थाने अचि परतः अयवायावित्येते आदेशाः यथासङ्ख्यम् भवन्ति। चयनम्। लवनम्। चायकः। लावकः। कयेते। ययेते। वायाववरुणद्धि।
लघु-सिद्धान्त-कौमुदी
एचोऽयवायावः २२, ६।१।७५

एचः क्रमादय् अव् आय् आव् एते स्युरचि॥
न्यासः
एचोऽयवायावः। , ६।१।७५

"कयेते, ययेते" इति। के+एते, ये+एत इति स्थितेऽयादेशः। "वायाववरुणद्धि" इति। वायौ+अवरुणद्धीति स्थित आवादेशः॥
बाल-मनोरमा
एचोऽयवायावः ६२, ६।१।७५

एचोऽयवायावः। अय्()च अव्()च आय्()च आव्()चेति विग्रहः। इको यणचीत्यतोऽचीत्यनुवर्तते। यथासंख्यपरिभाषया एकारस्य अय्(), ओकारस्य-अव्, ऐकारस्य-आय्, औकारस्य-आविति लभ्यते। तदाह--एचः क्रमादिति। यथासंख्यसूत्रभाष्यरीत्या त्वन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया। इह "इचोऽचि यणयवायाव" इत्येव सूत्रयितुमुचितम्।

तत्त्व-बोधिनी
एचोऽयवायावः ५२, ६।१।७५

एचः क्रमादिति। नन्वत्रैव यथासङ्ख्यसूत्रं वक्तुमुचितम्। प्रत्याहारग्रहणेषुतद्वाच्यवाच्ये निरूढलक्षाभ्युपगमेऽपि लक्ष्यार्थबोधात्पूर्वभाविशक्यार्थज्ञानमादाय यथासङ्खयत्वस्यावश्यं वक्तव्यत्वात्। अन्यथा एचां क्रमेणायवायावो न सिध्येरन्। मैवम्। अन्तरतमत्वेनापि तत्सिद्धेः। तथाहि एचः सन्ध्यक्षराणि। ततश्च संवृताकारतालव्यस्य एकारस्य संवृताकारतालव्योऽय्, संवृताकारोष्ठ()स्य ओकारस्य तादृश एव अव्, ऐचश्चोत्तरभूयस्त्वादैकारे इकारोऽध्यर्थमात्रः, अकारस्त्वर्धमात्र एव। एवमोकारेऽप्युकारोऽध्यद्र्धमात्रः, अकारस्त्वर्धमात्रः। एवंच विवृताकारतालव्यस्य ऐकारस्य विवृताकारतालव्य आय्। विवृताकारौष्ठ() आव्॥