पूर्वम्: ६।१।८६
अनन्तरम्: ६।१।८८
 
सूत्रम्
आटश्च॥ ६।१।८७
काशिका-वृत्तिः
आटश् च ६।१।९०

एचि इति निवृत्तम्। अचि इत्यनुवर्तते। आटः परो यो अच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोः आडचोः स्थाने वृद्धिरेकादेशो भवति। ऐक्षिष्ट। ऐक्षत। ऐक्षिष्यत। औभीत्। आर्ध्नोन्। औब्जीत्। चकारो ऽधिकविधानार्थः, उसि ओमाङोश्च ६।१।९२ इति पररूपबाधनार्थः। औस्रीयत्। औङ्कारीयत्। आ ऊढा ओढा, तामैच्छतौढीयत्।
लघु-सिद्धान्त-कौमुदी
आटश्च १९८, ६।१।८७

आटोऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥
न्यासः
आटश्च। , ६।१।८७

"एक्षत" इति। "ईक्ष दर्शने" (धा।पा।६१०) इति लङ्()। "ऐक्षिष्ट" इति। लुङ्()। "ऐक्षिष्यत" इति। लृङ्()। "औम्भीत्()" इति। "उभ उम्भ पूरणे" (धा।पा।१३१९,१३२०) इति लुङ्(), इट्(), अस्तिसिचोऽयुक्ते" ७।३।९६ इतीट्()। "ईटि" ८।२।२८ इति सिचो लोपः। "औब्जीत्()" इति। "उब्ज आर्जवे" (धा।पा।१३०३)। "आध्र्नोत्()" इति। "ऋषु वृद्धौ" (धा।पा।१२७१) इति लङ्, "स्वादिभ्यः श्नुः" ३।१।७३ इति श्नुः। "चकारोऽधिकविधानार्थः" इति। न तु वृद्धेरनुकर्षणार्थः; तदनुवृत्तेः स्वरितत्वादेव सिद्धत्वादित्यभिप्रायः। अधिकविधानार्थ इत्यस्यार्थं वाक्यान्तरेण त्रिस्पष्टीकर्त्तुमाह--"उस्योमाङोश्चेति पररूपबाधनार्थः" इति। उसिओमि आङि च यत्? पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः। चकारेम हि द्विर्वृद्धिविधानं विज्ञापयति। तत्र यद्द्वितीयं विधानं तद्? बाधकबाधनार्थं भवति। तेन "उस्यपदान्तात्()" ६।१।९३ इति यत्पररूपं प्राप्नोति, यच्च "ओमाङोश्च" ६।१।९२ इति तदपि बाधित्वा वृद्धिरेव भवति। "औरुआईयत्()" "औङ्कारीयत्()" इति। उरुआशब्दादोङ्कारशब्दाच्च "सुप आत्मनः क्यच्()" ३।१।८, "क्यचि च" ७।४।३३ इतीत्त्वम्(), क्यजन्ताल्लुङ्, आट्? "उस्यपदान्तात्()" ६।१।९३ इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्वृद्धिरेव भवति। "औढीयत्()" इति। ओढाशब्दात्? क्यजन्तल्लुङ्, आडागमे कृते "ओमाङोश्च" ६।१।९२ इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्()वृद्धिरेव भवति॥
बाल-मनोरमा
आटश्च २६७, ६।१।८७

टित्त्वादाद्यवयवः। बहुश्रेयसी आ ए इति स्थिते-आटश्चा। "इकोयणची"त्यतः अचीति "वृद्धिरेचि" इत्यतो वृद्धिरिति चानुवर्तते। "एकः पूर्वपरयो"रिति चाधिकृतम्। तदाह-आटोऽचीत्यादिना। बहुश्रेयस्यै इति। "बहुश्रेयसी आ ए" इति स्थिते "आटश्चे"ति वृद्धौ यणादेशे च रूपमिति भावः। यद्यपि "वृद्धिरेची"त्येव सिद्धं तथापि ऐक्षतेत्याद्यर्थ"माटश्चे"ति सूत्रमिहापि न्याय्यत्वादुपन्यस्तम्। बहुश्रेयस्या इति। ङसि ङसोर्बहुश्रेयसी आ अस् इति स्थिते "आटश्चे"ति वृद्धावाकारे यणि रूपमिति भावः। अत्रापि सवर्णदीर्घेण सिद्धम्। न्याय्यत्वादाटश्चेति वृद्धिः। नद्यन्तात्परत्वादिति। श्रेयसीशब्दस्य ईकारान्तनित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयत्वात्। सवर्णदीर्घे प्राप्ते-।

तत्त्व-बोधिनी
आटश्च २२९, ६।१।८७

आटश्च। यद्यपि इह ङयि "वृद्धिरेची"त्येव सिद्धं, ङे सिङ्सोर्ङेरामि च सवर्णदीर्घेण, तथाप्यैन्दिददित्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम्। "अजादीनामटा सिद्धम्" "आडजादीनाम्िति सूत्रं मास्तु इति वदतो वार्तिककारस्य मतेतु "अटश्चे"त्येव सूत्रमिति बोध्यम्।