पूर्वम्: ६।२।१०२
अनन्तरम्: ६।२।१०४
 
सूत्रम्
दिक्‌शब्दा ग्रामजनपदाख्यानचानराटेषु॥ ६।२।१०३
काशिका-वृत्तिः
दिक्शब्दा ग्रामजनपदाऽख्यानचानराटेषु ६।२।१०३

दिक्शब्दाः पूर्वपदानि अन्तोदात्तनि भवन्ति ग्रामजनपदाख्यानवाचिषु उत्तरपदेषु, चानराटशब्दे च। पूर्वेषुकामशमी, पूर्वेषुकामशमी। अपरेषुकामशमी, अपरेषुकामशमी। पूर्वकृष्णमृत्तिका। अपरकृष्णमृत्तिका। जनपद पूर्वपञ्चालाः। अपरपञ्चालाः। आख्यान पूर्वाधिरामम्, पूर्वाधिरामम्। पूर्वयायातम्। अपरयायातम्। अधिरामम् अधिकृत्य कृतो ग्रन्थः आधिरामम्। तथा यायातम्। चानराट पूर्वचानराटम्। अपरचानराटम्। शब्दग्रहणं कालवाचिनो ऽपि दिक्शब्दस्य परिग्रहार्थम्।
न्यासः
दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु। , ६।२।१०३

"पूर्वेषुकामशमी" इति। "दिक्संख्ये संज्ञायाम्()" २।१।४९ इति समासः। एवं "अपरेषुकामशमी" इत्यत्रापि। "पूर्वकृष्णमृत्तिका" इति। पूर्वा चासौ कृष्ममृत्तिका चेति "पूर्वापर" २।१।५७ इत्यादिना समासः। एवं "अपरकृष्णमृत्तिका" इत्येवमादावपि। अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम्()। "अधिकृत्य कृते ग्रन्थे" ४।३।८७ इत्यण्()। अथ यता--चानराटे रूपग्रहणं तथा ग्रामादिष्वपि कस्मान्न भवति? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्देशस्य स्वरूपग्रहणं भवतीत्युक्तम्()। इह चानराट एव शब्दप्रधानो निर्देश, ग्रामादिष्वर्थप्रधान एव। अथ शब्दग्रहणं किमर्थम्(), न दिगित्येवोच्यते? इत्यत आह--"शब्दग्रहणम्()" इत्यादि। असति हि शब्दग्रहणे पूर्वाधिरामम्(), पूर्वयायातमित्यत्र न स्यात्()। कस्मात्()िह कालवाची पूर्वशब्दः। दिग्वाचिशब्दग्रहणे सति दिक्शब्दमात्रग्रहणं भवति। तस्मात्? कालवाचिनोऽपि दिक्शब्दस्य परिग्रहो यथा स्यादित्येवमर्थं शब्दग्रहणम्()॥