पूर्वम्: ६।२।११
अनन्तरम्: ६।२।१३
 
सूत्रम्
द्विगौ प्रमाणे॥ ६।२।१२
काशिका-वृत्तिः
द्विगौ प्रमाणे ६।२।१२

द्विगावुत्तरपदे प्रमणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्यसप्तशमः। गान्धारिसप्तशमः। सप्तशमाः प्रमाणम् अस्य इति मात्रचः उत्पन्नस्य प्रमाणे लः द्विगोर् नित्यम् इति लुक्। प्राच्यश्च असौ सप्तशमश्च प्राच्यसप्तशमः। प्राच्यशब्दः आद्युदात्तः। गान्धरिशब्दः कर्दमादित्वादाद्युदात्तो मद्योदत्तो वा। द्विगौ इति किम्? व्रीहिप्रस्थः प्रमाणे इति किम्? परमसप्तशमम्।
न्यासः
द्विगौ प्रमाणे। , ६।२।१२

"प्राच्यसप्तशमः" इति। षष्ठीसमासः। "प्राच्यशब्द आद्युदात्तः" इति। यत्प्रत्ययान्तत्वात्? "यतोऽनावः ६।१।२०७ इति। "गान्धारिशब्दः कर्दमादित्वादाद्युदात्तो मध्योदात्तो वा" इति। "कर्दमादीनाञ्च" (फि।सू।३।१०) इत्यत्रादिग्रहणं चानुवर्तते, तत्र यदादेरुदात्तो विधीयते तदाऽ‌ऽद्युदात्तो भवति; यदा तु द्वितीयस्य तदा मध्योदात्तः।