पूर्वम्: ६।२।१२१
अनन्तरम्: ६।२।१२३
 
सूत्रम्
तत्पुरुषे शालायां नपुंसके॥ ६।२।१२२
काशिका-वृत्तिः
तत्पुरुषे शालायां नपुंसके ६।२।१२३

शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्गे उत्तरपदम् आद्युदात्तं भवति। ब्राह्मनशालम्। क्षत्रियशालम्। विभाषा सेनासुराच्छायाशालानिशानाम् २।४।२५ इति नपुंसकलिङ्गता। तत्पुरुषे इति किम्? दृढशालं ब्राह्मणकुलस्। शालायाम् इति किम्? ब्राह्मणसेनम् नपुंसके इति किम्? ब्राह्मणशाला।
न्यासः
ततपुरुषे शालायां नपुंसके। , ६।२।१२२

शालशब्दः "कूलतीर" ६।२।१२० इत्यत्रोक्तस्वरः। "ब्राआहृणशालम्(), क्षत्त्रियशालम्()" इति ब्राआहृणशब्दोऽणन्तत्वादन्तोदात्तः। क्षत्रियशब्दस्तु मध्योदात्तः, "क्षत्राद्? धः" ४।१।१३८ इति घप्रत्ययान्तत्वात्()। "दृढशालम्()" इति। बहुव्रीहिरयम्(), तेन पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम्()। ननु च लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) "विभाषा सेना" २।४।२५ इति प्रतिपदोक्ता या नपुंसकलिङ्गता सैव ग्रहिष्यते। न हि दृढशालमित्यत्र प्रतिपदोक्ता नपुंसकता, किं तर्हि? अभिधेयवशेन लक्षणोक्ता "अभिधेयवल्लिङ्गवचनानि भवन्ति" (व्या।प।७३) इति। तत्? किमेतन्निवृत्यर्थेन तत्पुरुषग्रहणेन? एवं तर्ह्रु त्तरार्थं तत्पुरुषग्रहणम्()। "चेलखेट कटुककाण्डं गर्हायाम्()" (६।२।१२६) इत्यनेन दधि च तत्? कटुकं चेति दधिकटुकमित्यत्रैव यथा स्यात्()। दधिकटुकम्(), "उद()इआत्कटुकम्()" इति। उत्तरार्थं तु तत्क्रियमाणं विस्पष्टार्थत्वमुपपादयतीत्येतदर्थमपि भवति। लक्षणप्रतिपदोक्तपरिबाषा (व्या।प।३) चेह नाश्रयितव्या भवति--एतदर्थं तत्पुरुषग्रहणस्य दृढशालमित्येतत्? प्रत्युदाहरणमुपन्यस्तम्()॥