पूर्वम्: ६।२।१२८
अनन्तरम्: ६।२।१३०
 
सूत्रम्
अकर्मधारये राज्यम्॥ ६।२।१२९
काशिका-वृत्तिः
अकमधारये राज्यम् ६।२।१३०

कर्मधारयवर्जिते तत्पुरुषे समासे राज्यम् इत्येतदुत्तरपदम् आद्युदात्तं भवति। ब्राह्मणराज्यम्। क्षत्रियराज्यम्। अकर्मधारये इति किम्? परमराज्यम्। चेलराज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन। कुचेलम्। कुराज्यम्।
न्यासः
अकर्मधारहये राज्यम्?। , ६।२।१२९

राज्ञो भावः, कर्म वा राज्यम्(), ष्यन्तत्वादाद्युदत्तम्()। ब्राआहृणक्षत्रियशब्दौ उक्तस्वरौ। "चेलराज्य" इत्यादि। चेलराज्यस्वरस्यावकाशः--भार्याचेलम्(), ब्राआहृणराज्यमिति, "तत्पुरुषे तुल्यार्थ" ६।१।२ इत्यादिना विहितस्य स्वरस्यावकाशः--निष्कौशाम्बिरिति; इहोभयं प्राप्नोति--कुचेलम्(), कुराजयमिति, अव्ययस्वरो भवति पूर्वप्रतिषेधेन। आदिशब्देन वग्र्यादिस्वरपरिग्रहः॥