पूर्वम्: ६।२।१४९
अनन्तरम्: ६।२।१५१
 
सूत्रम्
मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः॥ ६।२।१५०
काशिका-वृत्तिः
मन्क्तिन्व्याख्यानशयनाऽसनस्थानयाजकाऽदिक्रीताः ६।२।१५१

मन्नन्तं क्तिन्नन्तं व्याख्यान शयन स्थान इत्येतानि याजकादयः क्रीतशब्दश्च उत्तरपदम् अनतोदात्तं भवति। मन् रथवर्त्म। शकटवर्त्म। क्तिन् पाणिनिकृतिः। आपिशलिकृतिः। व्याख्यान ऋगयनव्याख्यानम्। छन्दोव्याख्यानम्। शयन राजशयनम्। ब्राह्मणशयनम्। आसन राजासनम्। ब्राह्मणासनम्। स्थान गोस्थानम्। अश्वस्थानम्। याजकादिः ब्राह्मणयाजकः। क्षत्रिययाजकः। ब्राह्मणपूजकः। क्षत्रियपूजकः। याजकादयो ये याजकदिभिश्च २।२।९ इति षष्ठीसमासार्थाः पठ्यन्ते त एव इह गृह्यन्ते। क्रीत गोत्रीतः। अश्वक्रीतः। कृत्स्वरापवादो ऽयं योगः। क्रीतशब्दे तु तृतीया कर्मणि ६।२।४८ इत्यस्य अपवादः। व्याख्यानशयनासनस्थानानाम् अभावकर्मार्थं ग्रहणम्। कारकातित्येव, प्रकृतिः। प्रहृतिः।
न्यासः
मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः। , ६।२।१५०

मन्क्तिन्निति प्रत्ययग्रहणम्()। तत्र प्रत्ययग्रहणपरिभाषया (पु।प।वृ।४४) तदवतस्य ग्रहणं विज्ञायते, इत्याह--"मन्नन्तं क्तिन्नन्तञ्च" इति। रथवत्र्मेत्यादयः षष्ठीसमासाः। रथशब्दः क्थन्प्रत्ययान्त आद्युदात्त इत्युक्तम्()। "वृतु वर्तने" (धा।पा।७४८) इत्यस्मान्मनिन्()। तेन वत्र्मशब्द आद्युदात्तः। शकटशब्दः पयःशब्दश्च नित्त्वादाद्युदात्तः। पाणिन्यापिशलिशब्दाविञन्तत्वात्()। कृतिशब्दोऽपि क्तिन्नन्तत्वात्()। करणसाधनश्चायं व्याख्यानशब्दो ल्युङन्तः। कृत्स्वरेण मध्योदात्तः। छन्दःशब्दः "सर्वधातुब्योऽसुन्()" (पं।उ।४।१८८) ["असन्()" इत्येव सूत्रम्()--द।उ।] इति प्रत्ययग्रहणम्()। तत्र कृते "चन्देरादेश्च च्छः" (पं उ।४।२१८) इत्यसुन्प्रत्ययान्तत्वादाद्युदात्तः। अयन्त्यनेनेत्ययनम्(), ऋचामयनम्()। ऋचामिति कर्णि षष्ठी। ऋगयनशब्दः कृत्स्वरेण मद्योदात्तः। "राजशयनम्()" इत्यादि। सेरतेऽस्मिन्निति शयनम्(), आसतेऽस्मिन्नित्यासनम्? ताभ्यां राजब्राआहृणशब्दयोः षष्ठीसमासः। राजब्राआहृणशब्दाबुक्तस्वरौ। शयनासनशब्दौ लित्स्वरेणाद्युदात्तौ। अत्र कृद्योगलक्षणा पूर्ववदेव कत्र्तरि षष्ठी। एवं "गोस्थानम()आस्थानम्()" इत्यत्रापि। गवा()आशब्दावुक्तस्वरौ। तिष्ठत्यस्मिन्निति स्थानम्(), लित्स्वरेणाद्युदात्तम्()। "ब्राआहृणयाज्यः" इत्यादौ कृद्योगलक्षणा कर्मणि षष्ठी। याजकादिषु ये ण्वुलन्ताः पठ()न्ते, तेषु येऽनुपसर्गाः--याजकपूजकस्नापका इति, त आद्युदात्तः। ये तु सोपसर्गाः--परिवेषकाध्यापकोद्वत्र्तकोत्सादका इति, ते कृत्स्वरेण मध्योदात्ताः। होतभर्तृशब्दो तृन्नन्तौ प्रयोजयतः। यौ तु तृजन्तौ तयोः कृत्स्वरेणान्तोदात्त्वं सिद्धम्()। "गोक्रीतः, अ()आक्रीतः" इत्यादि। "कर्तृकरणे कृता २।१।३१ इति समासावेतौ। क्रीतशब्दः प्रत्ययस्वरेणान्तोदात्तः। "कृत्स्वरापवादो योगः" इति। क्रीतशब्दादन्येषु मन्क्तितन्व्याख्यानादिषु। क्रीतशब्दे तु "तृतीया कर्मण" ६।२।४८ इत्यस्येति पूर्वपदप्रकृतिस्वरस्य। "व्याख्यानशयनासनस्थानानामभावकर्मार्थ ग्रहणम्()" इति। भावकर्मवचनस्यानन्तस्य "अनो भावकर्मवचनः" ६।२।१४९ इत्यनेनैव सिद्धत्वात्()। "प्रकृतिः, प्रह्मतिः" इति। अत्र "तुल्यार्थ" ६।२।२ इत्यादिना पूरवपदस्य प्रकृतिस्वरत्वमेव भवति। गतिसमासावेतौ॥