पूर्वम्: ६।२।१५५
अनन्तरम्: ६।२।१५७
 
सूत्रम्
अच्कावशक्तौ॥ ६।२।१५६
काशिका-वृत्तिः
अच्कावशक्तौ ६।२।१५७

अच् क इत्येवम् अन्तम् अशक्तौ गम्यमानायाम् उत्तरपदं नञः परमन्तोदत्तं भवति। अपचः यः पक्तुं न शक्नोति। अजयः। कः खल्वपि अविक्षिपः। अविलिखः। अशक्तौ इति किम्? अपचो दीक्षितः। अपचः परिव्राजकः।
न्यासः
अच्कावशक्तौ। , ६।२।१५६

"अपचः" इति। पचाद्यच्()। "अविक्षिपः" इति। "इगुपधज्ञाप्रीकिरः कः" ३।१।१३५ "अपचोऽदीक्षितः" इत्यादि। दीक्षितपरिव्राजकौ शास्त्रे प्रतिषिद्धत्वान्न पचतः; न त्वशक्तत्वात्()। तेनात्र व्रतं गम्पते, न त्वशक्तिः॥