पूर्वम्: ६।२।१७१
अनन्तरम्: ६।२।१७३
 
सूत्रम्
कपि पूर्वम्॥ ६।२।१७२
काशिका-वृत्तिः
कपि पूर्वम् ६।२।१७३

नञ्सुभ्या कपि परतः पूर्वम् अन्तोदात्तं भवति। अकुमारीको देशः। अवृषलीकः। अब्रह्मबन्धूकः। सुकुमारीकः। सुवृषलीकः। सुब्रह्मबन्धूकः।
न्यासः
कपि पूर्वम्?। , ६।२।१७२

पूर्वेण कप एवान्तोदात्तत्वे प्राप्ते कपि पूर्वस्योदात्तत्वमनेन विधीयते। "अकुमारीकः" इत्यादि। "शेषाद्विभाषा" ५।४।१५४ इति कप्()। कुमारीशब्द उदात्तनिवृत्तिस्वरेणान्तोदात्तः। वृषलीशब्दोऽपि जातिलक्षणेन ङीषा। ब्राहृबन्धूरप्यूङन्तत्वात्? प्रत्ययस्वरेण॥