पूर्वम्: ६।२।१८५
अनन्तरम्: ६।२।१८७
 
सूत्रम्
स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च॥ ६।२।१८६
काशिका-वृत्तिः
स्फिगपूतवीणाऽञ्जो ऽध्वकुक्षिसीरनामनाम च ६।२।१८७

स्फिग पूत वीणा अञ्जसध्वन् कुक्षि इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्च अपादुत्तराण्यन्तोदात्तनि भवन्ति। अपस्फिगम्। अपपूतम्। अपवीणम्। अपञ्जः। अपाध्वा। उपसर्गादध्वनः ५।४।८५ इति यदा समासान्तो न अस्ति तदा अनेन अन्तोदात्तत्वं भवति। तस्मिन् हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धम्। अनित्यश्च समासान्तः इत्येतदेव ज्ञापकम्। अपकुक्षिः। अपसीरः। अपहलम्। अपलाङ्गलम्। अपनाम। सर्वत्र प्रादिसमासो, बहुव्रीहिः, अव्ययीभावो वा। स्फिगपूतकुक्षीणां ग्रहणम् अबहुव्रीह्यर्थम् अध्रुवार्थम् अस्वाङ्गार्थं च।
न्यासः
स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनाम नाम च। , ६।२।१८६

स्फिगदीनां नामपर्यन्तानां समाहारे द्वन्द्वः। "सीरनामानि च" इति। हलादीनि। "अपस्फिगम्(), अपपूतम्()" इति। प्रादिसमासः, बहुव्रीहिर्वा। स्फिगपूतशब्दौ "स्वाङ्गशिटामदन्तानाम्()" (फि।सू।२।२९) इत्याद्युदात्तौ। केचित्तु स्फिगशब्दं धृतादित्वा(फि।सू।१।२१)दन्तोदात्तमिच्छन्ति। "रास्नासास्नास्थूणावीणाः" (द।उ।५।४७) इति वीणाशब्द आद्युदात्तो निपात्यते। "अञ्जू" इत्येतदस्मादसुन्()। तेनञ्ज आद्युदात्तः। "शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप्()" [क्वन्()--इति मु। पाठः,] इत्यधिकृत्य "अदेर्धच" [अदेर्धश्च--द।उ।] इत्यध्वा। तेनायमाद्युदात्तः। "उपसर्गादध्वनः" इत्यादि। "अच्प्रत्यन्ववपूर्वात्? सामलोभ्नः" ५।४।७५ इत्यतोऽझणेऽनुवर्तमाने "उपसर्गादध्वनः" (५।४।८५) इत्यनेनाच्? समासान्तो विधीयते। तेन तस्मिन्? समासान्तेऽच्प्रत्ययस्य चित्त्वादेव सिद्धमन्तोदात्तत्वम्()। ननु च नित्यः समासान्तः, तत्? किमुच्यते--यदा समासान्तो नास्तीति? अत आह--"अनित्यश्च" इत्यादि। यदि नित्यः समासान्तः स्यादध्वग्रहणमिह न कृतं स्यात्(); अच्प्रत्ययस्य चित्त्वादेवान्तोदात्तस्य सिद्धत्वात्(); कृतं च, तस्मादेतदेव ज्ञापयति--"समासान्तविधिरनित्यः" इति। तेन "तत्रोपासितलोकभत्र्तरि" इत्येवमादयः प्रयोगा उपपन्ना भवन्ति। "प्लुषिकुषिशुषिभ्यः क्सिः" (द।उ।१।११) ["प्लुषिशुषिकुषिभ्यः क्सिः"--द।उ।]