पूर्वम्: ६।२।२५
अनन्तरम्: ६।२।२७
 
सूत्रम्
कुमारश्च॥ ६।२।२६
काशिका-वृत्तिः
कुमारश् च ६।२।२६

कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरम् भवति। कुमारश्रमणा। कुमारकुलटा। कुमारतापसी। कुमारशब्दो ऽन्तोदात्तः। अत्र केचित् लक्षणप्रतिपदोकयोः प्रतिपदोक्तस्य एव ग्रहणम् इत् परिभाषया कुमारः श्रमणादिभिः २।१।६९ इत्यत्र एव समासे स्वरम् एतम् इच्छन्ति। केचित् पुनरविशेषेण सर्वत्र एव कर्मधारये।
न्यासः
कुमारश्च। , ६।२।२६

"कुमारश्रमणा" इति। "प्रातपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्()" (व्या।पा।२१) इति कुमारीशब्दोऽत्र समस्यते। एवं हि श्रमणशब्देन स्त्रीलिङ्गेन सामानादिकरण्यमुपपद्यते; नान्यथा। "कुमारशब्दोऽन्तोदात्तः" इति। "कुमार क्रीडायाम्()" (धा।पा।१८७७) इत्यस्मात्? पचाद्यचि व्युत्पादितत्वात्()। "केचित्? पुनः" इत्यादि। कथं पुनर्लक्षणप्रतिपदोक्तपरिभाषायां (व्या।प।३) सत्यामविशेषेणेति लभ्यते? एवं मन्यते--चकारोऽत्र क्रियते। स चास्यैव विधेः समुच्चयार्थः। तेन सर्वत्राविशेषेण भवति। एवं हि समुच्चयो भवति, नान्यथेति। ये तु "कुमारः श्रमणादिभिः" २।१।६९ इत्यत्रैव समासमिच्छन्ति, ते पूर्वविध्यपेक्षया चकारमिह समुच्चयार्थं वर्णयन्ति॥