बहुशब्दः पूर्वपदम् इगन्तादिषु उत्तरपदेषु द्विगौ समासे ऽन्यतरस्यां प्रकृतिस्वरं भवति। पूर्वेण नित्यं प्राप्ते विकल्पः। बह्वरत्निः, बह्वरत्निः। भौमास्यः, बहुमास्यः। बहुकपालः, बहुकपालः। बहुभगालः, बहुभगालः। बहुशरावः, बहुशरावः। बहुशब्दो ऽन्तोदात्तः, तस्य प्रकृतिस्वरे कृते यत्र यणादेशः तत्र उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य
८।२।४ इत्येष स्वरो भवति।
पूर्वोणेगन्तादिषूत्तरपदेषु बहुशब्दस्यापि नित्यं प्रकृतिस्वरे प्राप्ते विकल्पोऽयमुच्यते। "बहुरत्निः" इति।
पूर्ववत्? समासादि। "बहुमास्यः" इति। पूर्ववद्यप्()। बहुकपालादयः समासाः, इहपि "संस्कृतं भक्षाः"
४।२।१५ इत्यत्रापि तद्धितार्थे कृतेऽण्प्रत्ययलोपा द्रष्टव्याः। "बहुशब्दोऽन्तोदात्तः" इति। स हि "कुभ्र्रश्च" (द।उ।१।१०७) इत्यनुवत्र्तमाने "बहि महि वृद्धौ" (धा।पा।६३३,६३४) इत्यस्मात्()। "लन्धिब्र्राह्रोर्नलोपश्च" (द।उ।१।११४) इति कुप्रत्ययं विधाय व्युत्पाद्यते, तेन प्रत्ययस्वरेणान्तोदात्तः। "यत्र यणादेशः" इति। बह्वरत्निरित्यत्र॥