पूर्वम्: ६।२।३२
अनन्तरम्: ६।२।३४
 
सूत्रम्
परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु॥ ६।२।३३
काशिका-वृत्तिः
परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ६।२।३३

परि प्रति उप अप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववाचिनि रात्र्यवयववाचिनि च उत्तरपदे प्रकृतिस्वरा भवन्ति। परित्रिगर्तं वृष्टो देवः। परिसौवीरम्। परिसार्वसेनि। प्रति प्रतिपूर्वाह्णम्। प्रत्यपराह्णम्। प्रतिपूर्वरात्रम्। प्रत्यपररात्रम्। उप उपपूर्वाह्णम्। उपापराह्णम्। उपपूर्वरात्रम्। उपापररात्रम्। अप अपत्रिगर्तं वृष्टो देवः। अपसौवीरम्। अपसार्वसेनि। निपाता आद्युदात्ता उपसर्गाश्च अभिवर्जम् इति आद्युदात्तानि पूर्वपदानि। तत्पुरुषे बहुव्रीहौ च सिद्धत्वातव्ययैइभावार्थो ऽयम् आरम्भः। तत्र अपपरीवर्जने वर्तेते, इति तयोरेव वर्ज्यमानम् उत्तरपदं, नेतरयोः। अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर् भवन्ति इति न पृथगुदाह्रियते। वर्ज्यमानाहोरात्रावयवेषु इति किम्? प्रत्यग्नि शलभाः पतन्ति। परिवनम् इत्यत्र वनं समासे ६।२।१७७ इत्येतद् भवति।