पूर्वम्: ६।२।५७
अनन्तरम्: ६।२।५९
 
सूत्रम्
आर्यो ब्राह्मणकुमारयोः॥ ६।२।५८
काशिका-वृत्तिः
आर्यो ब्राह्मणकुमारयोः ६।२।५८

आर्यशब्दः पूर्वपदं ब्रह्मणकुमारयोः कर्मधारये समासे ऽन्यतरस्यां प्रकृतिस्वरं भवति। आर्यब्रह्मणः, आर्यब्राह्मणः। आर्यकुमारः, आर्यकुमारः। आर्यशब्दः ण्यदन्तो ऽन्तस्वरितः। आर्यः इति किम्? परमब्रह्मणः। परमकुमारः। ब्रह्मणकुमारयोः इति किम्? आर्यक्षत्रियः। कर्मधारये इत्येव, आर्यस्य ब्राह्मणः आर्यब्राह्मणः।
न्यासः
आर्यो ब्राआहृणकुमारयोः। , ६।२।५८

"आर्यब्राआहृणः" इति। आर्यश्चासौ ब्राआहृणश्चेति विशेषणसमासः। "आर्यशब्दो ण्यदन्तः" इति। "ऋहलोण्र्यत्()" ३।१।१२४ इति ण्यति व्युत्पादितत्वात्()। "अन्तस्वरितः" इति। तित्स्वरेण। प्रत्युदाहरणे तु समासान्तोदात्तत्वमेव भवति॥