पूर्वम्: ६।२।६८
अनन्तरम्: ६।२।७०
 
सूत्रम्
गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे॥ ६।२।६९
काशिका-वृत्तिः
गोत्रान्तेवासिमानवब्राह्मणेसु क्षेपे ६।२।६९

गोत्रवाचिनि अन्तेवासिवाचिनि च उत्तरपदे मानवब्राह्मनयोश्च क्षेपवाचिनि समासे पूर्वपदम् आद्युदात्तं भवति। जङ्घावात्स्यः। यो जङ्घादानं ददान्यहम् इति वात्स्यः सम्पद्यते स जङ्घावात्स्यः इति क्षिप्यते। भार्यासौश्रुतः। सुश्रुतापत्यस्य बार्याप्रधानतया क्षेपः। वाशाब्राह्मकृतेयः। ब्रह्मकृतशदः शुभ्रादिसु पठ्यते। गोत्र। अन्तेवासि कुमारीदाक्षाः। कम्बलचारायणीयाः। घृतरौढीयाः। ओदनपाणिनीयाः। कुमार्यादिलाभकामा ये दाक्षादिभिः प्रोक्तानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते। अन्तेवासि। माणव भिक्षामाणवः। भिक्षां लप्स्ये ऽहमिति माणवो भवति। माणव। ब्राह्मण दासीब्राह्मणः। वृषलीब्राह्मणः। भयब्राह्मणः। यो भयेन ब्राह्मणः सम्पद्यते। अत्र यस्य अन्यत् समासलक्षणं न अस्ति, सुप्सुपा इत्येव तत्र समासः कर्तव्यः। गोत्रादिषु इति किम्? दासीश्रोत्रियः। क्षेपे इति किम्? महाब्राह्मणः।
न्यासः
गोत्रान्तेवासिमाणवब्राआहृणेषु क्षेपे। , ६।२।६९

"गोत्राधिकारादन्यत्र गोत्रग्रहणे लोकिकं गोत्रं गृहते" (का।वृ।४।२।३९) इत्युक्तम्()। लोके चापत्यमात्रे प्रसिद्धम्(), तेनेह तस्यैव ग्रहणम्(), न तु पारिभाषिकस्य। अन्तेवासी=शिष्यः। तत्रान्तेवसिग्रहणादर्थग्रहणं प्रसिद्धम्()। अत इहाप्यर्थ एव गृह्रते, न स्वरूपम्()। माणवब्राआहृणयोः स्वरूपमेव। मनोरयं माणवः, अस्मादेव निपातनाण्णत्वम्()। "अबाधकान्यपि निपातनानि भवन्ति" (पु।प।वृ।९९) इति पक्षे मानव इत्यपि भवति। ब्राहृणोऽयं ब्राआहृणः। यस्तु "अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः" (का।वृ।४।१।१६१) इति माणवकशब्दो व्युत्पाद्यते, यश्च ब्राहृणोऽपत्यं ब्राआहृण इत्यर्थे ब्राआहृणशब्दः तयोर्गोत्रग्रहणेनैव सिद्धम्()। क्षेपः निन्दा। "जङ्घावात्स्यः" इति। "सुप्? सुपा" २।१।४ इति समासः। कथं पुनरत्र क्षेपः? इत्याह--"यो जङ्घादानम्()" इत्यादि। जङ्घादानं किमप्याचारनियतं देयमुच्यते, तद्ददान्यहमित्यतोऽभिप्रायेण वात्स्यः सम्पद्यते। वात्स्योऽहमित्यभ्युपगच्छति यः सः जङ्घावात्स्य इत्येवं निन्द्यते। अवात्स्यस्यापि सतो जङ्घादानं प्रति वात्स्यत्वाभ्युपगमात्()। वात्स्यशब्दोऽयं गर्गादिः। "भार्यासौश्रुतः" इति। सुश्रुतोऽपत्यं सौश्रुत इत्यण्(), भार्याप्रधानः सौश्रुतो भार्यासौश्रुतः। "समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च" (वा।८३) इति समासः। सुश्रुतस्य भार्याप्रधानतयेत्यनेन समानाधिकरणेनात्र समास इति दर्शयति। सुश्रुतोऽपत्यमित्यनेनापि सौश्रुतस्याण्प्रतययान्तत्वम्()। "वशाब्राआहृकृतेयः" इति। तेनैवोपसंख्यानेन समासः। अत्रापि वशाप्रधानतया ब्राहृकृतापत्यस्य क्षेपः। "कुमारीदीक्षाः" इति। "सुप्? सुपा" २।१।४ इति समासः। एवं "कम्बलचारायणीयाः" इत्यत्रापि। दाक्षिणा प्रोक्तं दाक्षं शास्त्रम्()। "इञश्च" ४।२।१११ इत्यण्(), दाक्षमधीयते तद्वेत्तीति वा पुनरण्(), तस्य "प्रोक्ताल्लुक्()" ४।२।६३ इति लुक्()। चरशब्दो नडादिः, चरस्यापत्यं चारायणः, तेन प्रोक्तं चारायणीयम्()। "वृद्धाच्छः" ४।२।११३, "तदधीते" ४।२।५८ इति पूर्ववदण्()। पाणिना प्रोक्तं पाणनीयम्(), ततः पूर्ववदध्येतर्यण्? तस्य च लुक्()। "कमार्यादिलाभकामाः" इति। आदिशब्देन कम्बलौदनादीनां ग्रहणम्()। अत्रापि "सुप्? सुपा" २।१।४ इति समासः। तेनैवोपसंख्यानेन वा कुमारीलाभकामा दाक्षाः कुमारीदाक्षाः। "भिक्षामाणवः" इति। पूर्ववत्? समासः। भिक्षालाभकामो माणवो भिक्षामाणवः। "दासीब्राआहृणः" इति। दास्याः कामयिता ब्राआहृणो दासीब्राआहृणः। एवं "वृषलीब्राआहृणः" इति। "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति बहुलवचनादकृतापि समासः। "तृतीया" २।३।१८ इति योगविभागाद्वा। "दासीश्रोत्रियः" इति। दासीब्राआहृण इत्यनेन तुल्यम्()। समासस्वरापवायो योगः॥