पूर्वम्: ६।२।७८
अनन्तरम्: ६।२।८०
 
सूत्रम्
णिनि॥ ६।२।७९
काशिका-वृत्तिः
णिनि ६।२।७९

णिनन्ते उत्तरपदे पूर्वपदम् आद्युदात्तं भवति। पुष्पहारी। फलहारी। पर्णहारी।
न्यासः
णिनिः। , ६।२।७९

"पूष्पहारी" इति हरतेः "व्रते" ३।२।८० "बहुलमाभीक्ष्ण्ये" ३।२।८१ इति वा णिनिः॥