सूत्रम्
दीर्घकाशतुषभ्राष्ट्रवटं जे॥ ६।२।८२
काशिका-वृत्तिः
दीर्घकाशतुषभ्राष्ट्रवटं जे ६।२।८२
दीर्घान्तं पूर्वपदम्, काश तुष भ्राष्ट्र वट इत्येतानि च जे उत्तरपदे आद्युदात्तानि भवन्ति। कुटीजः। शमीजः। काशजः। तुषजः। भ्राष्ट्रजः। वटजः।
न्यासः
दीर्घकाशतुषभ्राष्ट्रवटं जे। , ६।२।८२
कृत्स्वरापवादो योगः। "कृटीजः" इति। कुट()आं जात इति "सप्तम्यां जनेर्डः
३।२।९७ इति डप्रत्ययः॥