पूर्वम्: ६।२।९०
अनन्तरम्: ६।२।९२
 
सूत्रम्
न भूताधिकसंजीवमद्राश्मकज्जलम्॥ ६।२।९१
काशिका-वृत्तिः
न भूताधिकसञ्जीवमद्राश्मकज्जलम् ६।२।९१

भूत अधिक सञ्जीव मद्र अश्मन् कज्जल इत्येतानि पूर्वपदानि अर्मशब्दे उत्तरपदे नाद्युदात्तानि भवन्ति। भूतार्मम्। अधिकार्मम्। सञ्जीवार्मम्। मद्राश्मग्रहणं सङ्घातविगृहीतार्थम्। मद्रार्मम्। अश्मार्मम्। मद्राश्मार्मम्। कज्जलार्मम्। समासान्तोदात्तत्वम् एव अत्र भवति। आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम्। दिवोदासं वध्र्यश्वाय दाशुषे।
न्यासः
न भूताधिकसञ्जीवमद्राश्मकज्जलम्?। , ६।२।९१

"मद्राश्मग्रहणम्()" इत्यादि। उभयत्रापि द्व्यच्? त्र्यजिति च प्राप्तिरस्ति। तस्मात्? सङ्घातार्थं विगृहीतार्थञ्च वचनम्()। कथं पुनः संघातविगृहीतार्थत्वं लभ्यते? एकाशेषं कृत्वा मद्राश्म इति निर्देशात्()। मद्राश्मा च मद्राश्मानौ चेत्येकशेषः। एकशेषे सति मद्रशब्दस्य केवलस्य, मद्रशब्दस्य च सङ्घातस्य प्रतिषेध उपपद्यते। आद्युदात्तस्य प्रकरणमित्याद्युदात्तप्रकरणम्(), प्रकान्तम्()। तत्र दिवोदासा दीनां छन्दस्याद्युदात्तो भवतीत्येत दर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानां तु--"युक्ते च" (६।२।६६) इत्येवमादौ येऽस्मिन्? प्रकरणे चकाराः, तेषामन्यतमस्यानुक्तसमुच्चयार्थतामाश्रित्य कत्र्तव्यम्()॥