पूर्वम्: ६।२।९८
अनन्तरम्: ६।२।१००
 
सूत्रम्
पुरे प्राचाम्॥ ६।२।९९
काशिका-वृत्तिः
पुरे प्राचाम् ६।२।९९

पुरशब्दे उत्तरपदे प्राचाम् देशे पूर्वपदम् अन्तोदात्तं भवति। ललाटपुरम्। काञ्चीपुरम्। शिवदत्तपुरम्। कार्णिपुरम्। नार्मपुरम्। प्राचाम् इति किम्? शिवपुरम्।
न्यासः
पुरे प्राचाम्?। , ६।२।९९

"ललाटपुरम्()" इत्येवमादयः षष्टीसमासाः॥