पूर्वम्: ६।३।९९
अनन्तरम्: ६।३।१०१
 
सूत्रम्
कोः कत् तत्पुरुषेऽचि॥ ६।३।१००
काशिका-वृत्तिः
कोः कत् तत्पुरुषे ऽचि ६।३।१०१

कु इत्येतस्य क्त इत्ययम् आदेशो भवति तत्पुरुषे समासे अजादावुत्तरपदे। कदजः। कदश्वः। कदुष्ट्रः। कदन्नम्। तत्पुरुषे इति किम्? कूष्ट्रो राजा। अचि इति किम्? कुब्राह्मणः। कुपुरुषः। कद्भावे त्रावुपसङ्ख्यानम्। कुत्सितास्त्रयः कत्त्रयः।
न्यासः
कोः कत्तत्पुरुषेचि। , ६।३।१००

"कदजः" इति। कुत्सितोऽज इति "कुगतिप्रादयः" २।२।१८ इति समासः कूष्ट्रो राजेति बहुव्रीहिः। "कद्भावे" इत्यादि। अजादावत्तरपदे कद्भाव उच्यमानस्त्रिशब्द उत्तरपदे न प्राप्नोति। तस्मात् त्रिशब्दादुत्तरपदात्? पूर्वो यः कुशब्दः, तस्य कद्भावस्योपसंख्यानम्()=प्रतिपादनं कत्र्तव्यम्()। तत्रेदं प्रतिपादनम्()--उत्तरसूत्रे चकारः क्रियते, सचानुक्तसमुच्चयार्थः। तेन त्रिशपब्देऽप्युत्तरपदे परतः कद्भावो भविष्यतीति॥
बाल-मनोरमा
कोः कत्तत्पुरुषेऽचि १०१२, ६।३।१००

कोः कत्तत्पुरुषेऽचि। "क"दिति च्छेदः। शेषपूरणेन सूत्रं व्याचष्टे--अजादावुत्तरपदे इति। कद()आः कदन्नमिति। "कुगती"ति समासः। कूष्ट्रो राजेति। कुत्सित उष्ट्रो यस्येति बहुव्रीहित्वान्न कदादेशः।

त्रौ चेति। त्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थः। उत्तरपदस्याऽजादित्वाऽभावाद्वचनम्।