पूर्वम्: ६।३।१२४
अनन्तरम्: ६।३।१२६
 
सूत्रम्
छन्दसि च॥ ६।३।१२५
काशिका-वृत्तिः
छन्दसि च ६।३।१२६

छन्दसि विषये ऽष्टनः उत्तरपदे दीर्घो भवति। आग्नेयमष्टाकपालं निर्वपेत् चरुम्। अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती। अष्टौ पादौ अस्याः इति बहुव्रीहौ पादस्य लोपे कृते पादो ऽन्यतरस्याम् ४।१।८ इति ङीप्। गवि च युक्ते भाषायामाष्टनो दीर्घो भवति इति वक्तव्यम्। अष्टागवम् शकटम्।