पूर्वम्: ६।३।१३०
अनन्तरम्: ६।३।१३२
 
सूत्रम्
ओषधेश्च विभक्तावप्रथमायाम्॥ ६।३।१३१
काशिका-वृत्तिः
ओषधेश् च विभक्तावप्रथमायाम् ६।३।१३२

मन्त्रे इति वर्तते। ओषधिशब्दस्य विभक्तावप्रथमायां परतः दीर्घो भवति। ओषधीभिरपीतत्। नमः पृथिव्यै नम ओषधीभ्यः। विभक्तौ इति किम्? ओषधिपते। अप्रथमायाम् इति किम्? स्थिरेयमस्त्वोषधिः।
न्यासः
ओषधेश्च विभक्तावप्रथमायाम्?। , ६।३।१३१