पूर्वम्: ६।३।२८
अनन्तरम्: ६।३।३०
 
सूत्रम्
दिवसश्च पृथिव्याम्॥ ६।३।२९
काशिका-वृत्तिः
दिवसश् च पृथिव्याम् ६।३।३०

पृथिव्याम् उत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययम् आदेशो भवति, चकाराद् द्यावा च। दिवस्पृथिव्यौ। द्यावापृथिव्यौ। अकारोच्चारणम् सकारस्य विकाराभावप्रतिपत्त्यर्थम्। तेन रुत्वदीनि न भवन्ति। कथं द्यावा चिदस्मै पृथिवी नमेते इति? कर्तव्यो ऽत्र यत्नः।
न्यासः
दिवसश्च पृथिव्याम्?। , ६।३।२९

आनङोपवादः। अथाकारः किमर्थमुच्चार्यते, सकारस्येत्संज्ञापरित्राणार्थ इति चेत्()? न; प्रयोजनाभावादेवेत्संज्ञा न भविष्यतीत्याह--"अकारणोच्चारणम्()" इत्यादि। असति ह्रकारेऽन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां सकारस्य "ससजुषो रुः" ८।२।६६ इति रुत्वं विकारः स्यात्(), तस्यापि "खरवसानयोर्विसर्जनीवः" ८।३।१५ तस्यापि "कुप्वोः क पौ च" ८।३।३७ इत्युपध्मानीयः स्यात्()। अकार स्योच्चारणे तु सति न भवति, कथम्()? अकारस्योच्चारणेन यद्विकृतस्य सकारस्योपादानं तस्यैतदेव प्रयोजम्()--अविकृतस्यास्य प्रयोगो यथा स्यादिति--द्यावा दिवसमित्यादिकम्()। वाक्मेतत्()। इह च सूत्रे द्वन्द्वग्रहणम्(), उत्तरपदग्रहणं चानुवत्र्तते। द्यावा इत्ययमादेशो वाक्ये न प्राप्नोतीत्याह--"कथम्()" इत्यादि। "कत्र्तव्योऽत्र यत्नः" इति। तत्रायं यत्नः--"तत्पुरुषे कृति बहुलम्()" ६।३।१३ इत्यतो बहुलग्रहणमनुवत्र्तते तेन द्यावा इत्ययमादेशश्छन्दसि वाक्येऽपि भविष्यतीति। अथ वा-चकारोत्र क्रियते, तस्यानुक्तसमुच्चयार्थत्वाद्भविष्यति। द्यावाशब्दस्तु स्वरितत्वादेवानुवर्त्तिष्यत इति नार्थस्तदनुकर्षणार्थेन चकारेण। अथ वा--दिक्शब्देन समानार्थो द्यावाशब्दः प्रकृत्यन्तरमस्ति, तस्यायं प्रयोगः। आदेशवचनं तु दिवः प्रयोगनिवृत्त्यर्थमिति॥
बाल-मनोरमा
दिवसश्च पृथिव्याम् , ६।३।२९

दिवसश्च पृथिव्यां। दिव इत्येवेति। दिव इत्यनुवर्तत एवेत्यर्थः, स्वरितत्वादिति भावः। तर्हि चकारो व्यर्थ इत्यत आह--चादिति। तथा च दिव्शब्दस्य दिवसादेशो, द्यावादेशश्च स्यात्पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः। "दिवस्पृथिव्याः" इत्यत्र सकारादकारस्याऽश्रवणाद्दिवसादेशस्य सकारान्तत्वावश्यंभावादादेश सकारादकारोच्चारणस्य किं प्रयोजनमित्यत आह--आदेशेऽकारोच्चारणमिति। सामथ्र्यात् "ससजुषो रु"रिति रुत्वं नेति भावः। ननु "द्यावा चिदस्मै पृथिवी सन्नमेते" इत्यत्र दिव्शब्दपृथिवीशब्दयोः कथं द्वन्द्वः?, कथं वा दिवो द्यावा देशः(), उत्तरपदस्य "चिदस्मै" इत्यनेन व्यवहितत्वादित्यत आह--छन्दसि दृष्टानुविधिरिति॥ भाष्यवाक्यमेतत्। वेदे दृष्टानुसरणमित्यर्थः। यतादृष्टं तथा प्रक्रिया कल्पनीयेति भावः। पदकारा इति। "दिवस्पृथिव्यो"रित्यवग्रहे विसर्गं पठन्तीत्यर्थः। "पदकारा" इत्यनेन पदपाठस्याधुनिकत्वं सूचितम्। तथाच विसर्गपाठः प्रामादिक इति सूचितम्, अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात्। उषासोषसः। उषासासूर्यमिति। उषाश्च सूर्यश्चेति समाहारद्वन्द्वः। मातरपितरावुदीचाम्। उदीचां मते मातरपितराविति भवतीत्यर्थः। अत्र मातृशब्दस्याऽरङादेशो निपात्यते। मातापितराविति। अरङभावे "आनङृतः" इत्यानङ्। द्वन्द्वाच्चुदष। समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम्। टच्स्यादिति। "राजाहःसखिभ्यः" इत्यतस्तदनुवृत्तेरिति भावः। वाक्त्वचमिति। वाक्य त्वक्चेति समाहारद्वन्द्वः। कुत्वस्याऽसिद्धत्वाच्चवर्गान्तत्वाट्टच्।एवं त्वक्रुआजमित्यत्रापि। त्वक्च रुआक्चेति विग्रहः। शमीदृषदमिति। शमी च दृषच्चेति विग्रहः। दकारान्तत्वाट्टच्। वाक्त्विषमिति। वाक्च त्विट्। चेति विग्रहः। षान्तत्वाट्टच्, जश्त्वस्याऽसिद्धत्वादिति भावः। छत्रोपानहमिति। छत्रं च उपानच्चेति विग्रहः। हान्तत्वाट्टच्। प्रावृट्शरदाविति। प्रावृट् च शरच्चेति विग्रहः। इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः।

*****इति बालमनोरमायांद्वन्द्वसमासः*****

अथ द्विरुक्तप्रक्रिया।

--------------

तत्त्व-बोधिनी
दिवसश्च पृथिव्याम् ७९२, ६।३।२९

रुत्वं मा भूदिति। अकारे सति सकारस्य श्रवणं भवति, तेन प्रयोगे विकाराऽभावोऽनुमीयत इति भावः।

छन्दसि दृष्टानुविधिः। विसर्गमिति। तथा च "क्वचिद्वकारो ने"त्येवानुमेयं, लक्ष्यामुरोधादिति भावः।