पूर्वम्: ६।३।३८
अनन्तरम्: ६।३।४०
 
सूत्रम्
स्वाङ्गाच्चेतोऽमानिनि॥ ६।३।३९
काशिका-वृत्तिः
स्वाङ्गाच् च इतो ऽमानिनि ६।३।४०

स्वाङ्गादुत्तरो य ईकारः तदन्तायाः स्त्रियाः न पुंवद् भवति अमानिनि परतः। दीर्घकेशीभार्यः। श्लक्ष्णकेशीभार्यः। दीर्घकेशीपाशा। श्लक्ष्णकेशीपाशा। दीर्घकेशीयते। श्लक्ष्णकेशीयते। स्वाङ्गातिति किम्? पटुभार्यः। ईतः इति किम्? अकेशभार्यः। अमानिनि इति किम्? दीर्घकेशमानिनी।
न्यासः
स्वङ्गाच्चेतोऽमानिनि। , ६।३।३९

"दीर्घकेशी" इति। "स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्()" ४।१।५४ इति ङीष्()। "षट्वी" इति। पटुशब्दात्? "वोतो गुणवचनात्()" ४।१।४४ इति ङीष्()। "अकेशभार्यः" इति। अविद्यमानाः केशा अस्या अकेशा "सहनञ्विद्यमानपूर्वाच्च" ४।१।५७ इति ङीपि प्रतिषिद्धे टावेव भवति॥
बाल-मनोरमा
स्वाङ्गाच्चेतः ८३१, ६।३।३९

स्वाङ्गाच्चेतः। "ईत" इति च्छेदः। तदाह--"स्वाङ्गाद्य ईकार इति। सुकेशीभार्य इति। "सु=शोभनाः केशा यस्यः सा सुकेशी। "स्वाङ्गाच्चोपसर्जनात्" इति ङीष्। "स्त्रियाः पुंव"दिति प्राप्तस्य निषेधः। पटुभार्य इति। पट्वी भार्या यस्येति विग्रहः। पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्त्वनिषेधः। "किंतु पुवत्त्वे "वोतो गुणवचना"दिति ङीषो निवृत्तिरिति भावः। अकेशभार्य इति। अविद्यमानाः केशा यस्याः सा अकेशा। "नञोऽस्त्यर्थाना"मिति बहुव्रीहिः, विद्यमानशब्दस्य लोपश्च। स्वाङ्गत्वेऽपि न ङीष्, "सहनञ्विद्यमाने"ति निषेधात्। अतष्टावेव। अकेशा भार्या यस्येति विग्रहः। स्वाङ्गत्वेऽपि ईकाराऽभावान्न पुंवत्त्वनिषेधः। किंतु पुंवत्त्वे टापो निवृत्तिरिति भावः।

अमानिनीति। "स्वाङ्गच्चे"ति निषेधो मानिन्शब्देपरतो न भवतीति वक्तव्यमित्यर्थः। सुकेशमानिनीति। सुकेर्शीमन्यत इत्यर्थे "मनश्चे"ति णिनि, उपधावृद्धिः, उपपदसमासः, सुब्लुक्, पुंवत्त्वे ङीषो निवृत्तिरिति भावः।