पूर्वम्: ६।३।४१
अनन्तरम्: ६।३।४३
 
सूत्रम्
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः॥ ६।३।४२
काशिका-वृत्तिः
घरूपकल्पचेलड्ब्रूवगोत्रमतहतेषु ङ्यो ऽनेकाचो ह्रस्वः ६।३।४३

घ रूप कोप चेलट् ब्रूव गोत्र मत हत इत्येतेषू परतो भाषितपुंस्कत् परो यो ङीप्रत्ययस् तदन्तस्य अनेकाचो ह्रस्वो भवति। घ ब्राह्मणितरा। ब्राह्मणितमा। रूप ब्राह्मन्णिरूपा। कल्प ब्राह्मणिकल्पा। चेलट् ब्राह्मणिचेली। ब्रुव ब्राह्मणिब्रुवा। गोत्र ब्राह्मणिगोत्रा। मत ब्राह्मणिमता। हत ब्राह्मणिहता। घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि। ब्रौव इति ब्रवीति इति ब्रुवः पचाद्युअचि, वच्यादेशो गुणश्च निपातनान्न भवति। ङ्यः इति किम्? दत्तातरा। गुप्तातरा। अनेकचः इति किम्? नद्याः शेषस्य अन्यतरस्याम् ६।३।४३ इति वक्ष्यति। भाषितपुंस्कादित्येव, आमलकीतरा। कुवलीतरा।
न्यासः
घरूपकल्पचेलङ्ब्राउवगोत्रमतहतेषु ङ्योऽनेकाचो ह्वस्वः। , ६।३।४२

चेलडब्राउवगोत्रशब्दानां कुत्सार्थत्वात्? "कुत्सितानि कुत्सनैः २।१।५२ इति समासः। मतहतशब्दाभ्यां तु "विशेषणं बहुलम्()" २।१।५६ इत्यनेन। चेलडिति पचादौ पठ()ते, टकारो ङीबर्थः। यदि "ब्राउवः" इति पचाद्यजन्तमेतत्? एवं सति "ब्राउवो वचिः" २।४।५३ इति वच्यादेशो गुणश्च प्राप्नोति, स कस्मान्न भवतीति? यश्चोदयेतत्(), तं प्रत्याह--"वच्यादेशो गुणश्च निपातनान्न भवति" इति। "आमकलकीतरा, कुवलीतरा" इति। आमलककुवलशब्दौ वृक्षे नित्यं स्त्रीलिङ्गै। फले तु नपुंसकलिंगावित्युभावप्यभाषितपुंस्कौ, ताभ्यां गौरादित्वान्ङीष्()॥
बाल-मनोरमा
घरूपकल्पचेलड्ब्राउवगोत्रमतहतेषु ङ्योऽनेकाचो ह्यस्वः ९७०, ६।३।४२

अथ समासाश्रयविधिर्निरूप्यते--घरूप। "उत्तरपदे" इत्यधिकृतं चेलडादिष्वन्वेति, नतु घरूपकल्पेषु , घशब्दवाच्यतरप्तमपोः रूपप्कल्पपोश्च प्रत्ययत्वात्। नच तदन्तग्रहणे सति तेषूत्तरपदत्वं संभवतीति वाच्यं, "ह्मदयस्य ह()ल्लेखे"त्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभाव इति भाष्ये उक्तत्वात्। "स्त्रियाः पुंव"दित्यतो भाषित पुंस्कादित्यनुत्तम्। ङ्य इतितदन्तग्रहणं, केवस्यानेकाच्त्वाऽभावात्। तदाह---भाषितपुंस्काद्यो ङीति। एतदर्तमेव "स्त्रियाः पुंव"दित्यत्र बाशितपुंस्कादिति पञ्चम्यन्तमुपात्तं ष तत्र "भाषितपुंस्काद्यो ङीति। एतदर्थमेव "स्त्रियाः पुंव"दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं। तत्र "भाषितपुंस्काद्यो ङीति। एतदर्थमेव "स्त्रियाः पुंव"दित्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तं। तत्र "भाषितपुंस्काया" इति षष्ठ()न्तोपादाने तु इह तदनुव()त्तिर्न स्यात्, असंभवात्। नहि ङीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति। नच तत्रापि नार्थवत्स्यात्, अनूङिति पर्युदासात्स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाऽभावादिति वाच्यम्, तत्र स्त्रिया"इत्यस्वरितत्वात्स्त्रीप्रत्ययग्रहणं नेत्य#उक्तत्वात्। ब्राआहृणितरा ब्राआहृणितमेति। अतिशायने तरप्तमपौ। नच "तसिलादिष्वि"ति पुंवत्त्वेन ङीफो निवृत्तिः सङ्ख्याः, "जातेश्चे"ति निषेधात्। ब्राआहृणिरूपेति "प्रशंसायां रूपप्"। ब्राआहृणिकल्पेति। "ईषदसमाप्तौ"इति कल्पप्। ब्राआहृणिचेलीति। "चिल वसने" तस्मादचि चेलडिति पचादौ पठितम्। टित्त्वान्ङीप्। इत्यादीति। ब्राआहृणिमता। ब्राआहृणिहता। ब्राऊञ इति। ब्राऊञ्धातोरचि कृते "ब्राउवो वचि"रिति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यत इत्यर्थः। चेलडादीनीति। समासवृत्तिविषये चेलङ् ब्राउवगोत्रहता इत्युत्तरपदानि कुत्सनवाचीनीति कृत्वा "कुत्सितानि कुत्सनै"रिति कर्मधारय इत्यर्थः। आमलकोतरेति। आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वाद्भाशितपुंस्कत्वाऽभावेन न ह्यस्व इति भावः। ननु "न पदान्ते"ति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात्कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह--कुवलीतरेति। बृक्षनिषेशे नित्यस्त्रीलिङ्गोऽयमिति भावः। अमरस्तु "कर्कन्धूर्बदरी कोली घोण्टा "कुबलफनिले" इति नपुंसकत्वमाह।

तत्त्व-बोधिनी
घरूपकल्पचेलड्ब्राउवगोत्रमतहतेषु ङ्योऽनेकाचो ह्यस्वः ८२६, ६।३।४२

घरूपकल्प। तरप्तमपौ घः। प्रशंसायां रूपप्। चिल वसने। चेलडिति पचादौ टित्पठ()ते ङीवर्थम्। प्रत्ययेष्विति। लेखग्रहणेन उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति ज्ञापयिष्य इति भावः। ब्राआहृणितरेति। जातेश्चेति निषेधात् तसिलादिषु इति न पुंवद्भावः। चेलीति। पचादौ चेलट् इति पाठात् टिड्ढेति ङीप्। आमलकीति। आमलकीकुवलीशब्दौ वृक्षे नित्यस्त्रीलिङ्गौ।