पूर्वम्: ६।३।५२
अनन्तरम्: ६।३।५४
 
सूत्रम्
हिमकाषिहतिषु च॥ ६।३।५३
काशिका-वृत्तिः
हिमकाषिहतिसु च ६।३।५४

हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययम् आदेशो भवति। हिम पद्धिमम्। काषिन् अथ पत्काषिणो यन्ति। हति पद्धतिः।
न्यासः
हिमकाषिहतिषु च। , ६।३।५३

"पद्धिमम्()" इति। षष्ठीसमासः। "पत्काषिणः" इति। "सुप्यजातौ णिनिस्ताच्छील्ये" ३।२।७८ इति णिनिः, उपपदसमासः। "पद्धतिः" इति। पादाभ्यां हन्यत इति पद्धतिः। क्तिन्नन्तेन हतिशब्देन "कर्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः॥
बाल-मनोरमा
हिमकाषिहतिषु च ९७७, ६।३।५३

हिमकाषि। एषु परेषु पादस्य पत्स्यादित्यर्थः। पद्धिममिति। पादस्य हिममिति विग्रहः। पत्काषीति। पादौ पादाभ्यां वा कषतीत्यर्थः। "सुप्यजातौ" इति णिनिः। पद्धतिरिति। हन्यते इति हतिः। कर्मणि क्तिन्। पादाभ्यां हतिरिति विग्रहः। "कर्तृकरणे कृते"ति समासः।

तत्त्व-बोधिनी
हिमकाषिहतिषु च ८३३, ६।३।५३

पत्काषीति। "सुप्यजाता"विति णिनिः। पद्धितिरिति। कर्मणि क्तिन्।