पूर्वम्: ६।३।६७
अनन्तरम्: ६।३।६९
 
सूत्रम्
वाचंयमपुरंदरौ च॥ ६।३।६८
काशिका-वृत्तिः
वाचंयमपुरन्दरौ च ६।३।६९

वाचंयम पुरन्दर इत्येतौ निपात्येते। वाचंयम आस्ते। पुरं दारयति इति पुरन्दरः।
न्यासः
वाचंयमपुरन्दरौ च। , ६।३।६८

"वाचंयमः" इति। वाचं यच्छतीति "वचि यमो व्रते" ३।२।४० इति खच्()। तत्र वाक्शब्दसयामन्तता निपात्यते। "पुरन्दरः" इति। "पूःसरवयोर्दारिसहोः" ३।२।४१ इति खच्(), "खचि ह्यस्वः" ६।४।९४ इति ह्यस्वत्वम्()। अत्रापि पूःशब्दस्यामन्तता निपात्यते। चाकारोऽनुक्तसमुच्चयार्थः। तेन "अस्तुसत्यागदसय कारे" (वा।७४४) इति सर्वं न वक्तव्यं भवति
बाल-मनोरमा
वाचं यमपुरुन्दरौ च ७७०, ६।३।६८

वाचं यमपुरन्दरौ च। वाक्पुरोरिति। वाच्यं यच्छतीति, पुरं दारयतीति च विग्रहे यमेर्दारेश्च खच्। सुपो लुकि वाच् यम, दार इति स्थिते वाक्पुरोरमन्तत्वं निपात्यते इत्यर्थ-। "अरुर्द्विषजन्तस्य" इति मुमस्तु न प्रसक्तिः।

तत्त्व-बोधिनी
वाचंयमपुरन्दरौ च ६४०, ६।३।६८

निपात्यत इति। न चैवं खच् प्रत्ययोऽप्यत्रैव निपात्यतामिति वाच्यं, व्रतादन्यत्रापि प्रसङ्गात्। यदि तु निपातनबलादव व्रतविषयता आश्रीयते,तत्रैव वा व्रतग्रहणं क्रियते,-- "वाचंयमो व्रते पुरन्दरश्चे"ति तदा इह "वाचि यमो व्रते" इति सूत्रं, "पूः सर्वयो"रित्यत्र पुरि दारेरित्यंशश्च शक्यमकर्तुम्।