पूर्वम्: ६।३।७७
अनन्तरम्: ६।३।७९
 
सूत्रम्
ग्रन्थान्ताधिके च॥ ६।३।७८
काशिका-वृत्तिः
ग्रन्थान्ताधिके च ६।३।७९

ग्रन्थान्ते अधिके च वर्तमानस्य सहशब्दस्य स इत्ययम् आदेशो भवति। सकलं ज्यौतिषमधीते। समुहूर्तम्। ससङ्ग्रहं व्याकरणम् अधीयते। कलान्तं, महूर्तान्तं, सङ्ग्रहान्तम् इति अन्तवचने इत्यव्ययीभावः समासः। तत्र अव्ययीभावे चाकाले इति कालवाचिन्युत्तरपदे समासो न प्राप्नोति इत्ययम् आरम्भः। अधिके सद्रोणा खारी। समाषः कार्षापणः। सकाकिणीको माषः।
न्यासः
ग्रन्थान्ताधिके च। , ६।३।७८

"सकलम्()" इति। कला=कालविशेषः, तत्सहचारितो ग्रन्थस्तथोच्यते। सह कलया वत्र्तत इति सकलम्()। एवं "समुहूत्र्तम्()" इत्येतदपि वेदितव्यम्()। "ससंग्रहम्()" इति। एतदुदाहरणं प्रमादादिदानीन्तनैः कुलेखकैर्लिखितम्(), तत्र हि "अव्ययीभावे चाकाले" (६।३।८१) इत्येवं सभावः सिद्धः? इत्याह--तत्र" इत्यादि। कथं पुननं प्राप्नोति, यावता कालमुहूर्तशब्दौ तावत्? साहचर्यादत्र ग्रन्थे वत्र्तते? एवं मन्यते--प्रकरणादिना वाक्येन ग्रन्थविषयता तयोर्गम्यते। मुख्यस्तु काल एवाभिधेय इति। "सद्रोणा खारी" इत्यादि। "तेन सह" २।२।२८ इत्यादिना बहुव्रीहिः॥
बाल-मनोरमा
ग्रन्थान्ताधिके च ९९५, ६।३।७८

ग्रन्थान्ताधिके च। ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः। अनयोरर्थयोरिति। "विद्यमानस्ये"ति शेषः। समुहूर्तमिति। मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्त्रमधीत इत्यर्थः। अन्तवचनेऽव्ययीभावः। "अव्ययीभावे चाऽकाले" इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम्। सद्रोणा खारीति। द्रोणपरिमाणादधिकेत्यर्थः। मयूरव्यंसकादित्वात्सहशब्दस्याधिकवाचिनः समासः, सभावश्च।