पूर्वम्: ६।३।७
अनन्तरम्: ६।३।९
 
सूत्रम्
हलदन्तात् सप्तम्याः संज्ञायाम्॥ ६।३।८
काशिका-वृत्तिः
हलदन्तात् सप्तम्याः संज्ञायाम् ६।३।९

हलन्ताददन्ताच् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति। युधिष्ठिरः। त्वचिसारः। गविष्ठिरः इत्यत्र तु गवियुधिभ्यां स्थिरः ८।३।९५ इत्यत एव वचनादलुक्। अदन्तात् अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेहरिद्रकाः। वनेबल्बजकाः। पुर्वाह्णेस्फोटकाः। कूपेपिशाचकाः। हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका। भूम्यां पाशाः भूमिपाशाः। संज्ञायाम् इति किम्? अक्षशौण्डः। हृद्द्युभां ङेः। हृद् दिवित्येतेभ्याम् उत्तरस्य ङेरलुग् भवति। हृदिस्पृक्। दिविस्पृक्।
लघु-सिद्धान्त-कौमुदी
हलन्तात्सप्तम्याः संज्ञायाम् ९७१, ६।३।८

हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथोऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः)। प्रपतितपर्णः, प्रपर्णः। (नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) अविद्यमानपुत्रः, अपुत्रः॥
न्यासः
हलदन्तात्सप्तम्याः संज्ञायाम्?। , ६।३।८

"युधिष्ठिरः" इति। "संज्ञायाम्()" २।१।४३ इति समासः, "गवियुधिभ्यां स्थिरः" ८।३।९५ इति षत्वम्()। अथ गविष्ठिर इत्यत्र कथमलुक्(), न हि गोशब्दो हलन्तः, नाप्यदन्तः? स्यादेतत्()--गो+इ+स्थिर इति स्थितेऽन्तरङ्गत्वादवादेशे कृते हलन्तत्वाद्भविष्यति, एतच्च नास्ति; यतः "अन्तरङ्गानपि विधीन्? वहिरङ्गो लुग्? बाधते" (व्या।प।१२८) इति, अवश्यं चैतदभ्युपेयम्(); अन्यथा हि नद्यां कुक्कुटिका नदीकुक्कुटिक, भूम्यां पाशो भूमिपाश इत्यत्रापि यणादेशे कृतेऽलुक्? प्रसज्येत? इत्यत आह--"गविष्ठिर इत्यत्र तु" इत्यादि। "ह्मद्द्युभ्याम्()" इति। असंज्ञार्थमिदम्()। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं चोत्तरत्र करिष्यते। अथ वेहापि क्रियते--इहान्तग्रहणं न कत्र्तव्यम्(), विनापि तेन सपतम्या प्रातिपदिके सन्निधापिते हलदन्तता लभ्यत एव, तसमादधिकमिहान्तग्रहणं क्रियते, तदधिकं क्रियमाणमेतत्? सूचयति--अधिकेनायमलुग्भवतीति। तेन क्वचिदसंज्ञायामलुग्भवतीति। "ह्मदिस्पृग्दिविस्पृक्()" इति। "स्पृशोऽनुदके क्विन्()" ३।२।५८ "क्विन्प्रत्यस्य कुः" ८।२।६२ ति शकारस्य खकारः, तस्य "झलां जशोऽन्ते" ८।२।३९ इति जश्त्वम्()--गकारः, तस्यापि "वाऽवसाने" ८।४।५५ इति चत्र्वम्()--ककारः। अत्र चायमर्थः--ह्मदयं स्पृशति, दिवं स्पृशतीति। तथा हि भाष्ये उक्तम्()--"द्वितीयार्थे सप्तमी चैषा द्रष्टवया, ह्मदयं स्पृशति, दिवं स्पृशतीति "ह्मविस्पृक्(), दिविस्पृक" इति। कथं पुनः द्वितीयार्थे सा भवति? अत एव भाष्यकारवचनात्()। अथ वा--ह्मदयं यः स्पृशति स ह्मदये स्पृशत्येव, दिवं यः स्पृशति स दिवि स्पृशत्येव अत्र "अधिकरणे" २।३।३६ इत्येवं भविष्यति सप्तमी। आख्याग्रहणे प्रकृते पुनः संज्ञाग्रहणं विस्पष्टार्थम्()॥
बाल-मनोरमा
हलदन्तात्सप्तम्याः संज्ञायाम् ९५१, ६।३।८

हलदन्तात्। त्वचिसार इति। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः। "वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः" इत्यमरः। अथ हलन्तस्योदाहरणान्तरं वक्ष्यति--युधिष्ठिर इति। अत्र "अजिरशिशिसस्थिरे"त्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः।