पूर्वम्: ६।४।१२५
अनन्तरम्: ६।४।१२७
 
सूत्रम्
न शसददवादिगुणानाम्॥ ६।४।१२६
काशिका-वृत्तिः
न शसददवादिगुणानाम् ६।४।१२६

शस दद इत्येतयोः वकारादीनां च धातूनां गुण इत्येवम् अभिनिर्वृत्तस्य च यो ऽकारः तस्य स्थाने एकारादेशो न भवति, अभ्यासलोपश्च। विशशसतुः। विशशसुः। विशशसिथ। दददे, दददाते, ददरिरे। वादीनाम् ववमतुः। ववमुः। ववमिथ। गुणस्य विशशरतुः। विशशरुः। विशशरिथ। लुलविथ। पुपविथ। गुणशब्दाभिनिर्वृत्तस्य अर्शब्दस्य ओकारस्य च अयम् अकारः इति एत्वं प्रतिषिध्यते।
लघु-सिद्धान्त-कौमुदी
न शसददवादिगुणानाम् ५४३, ६।४।१२६

शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य एत्त्वाभ्यासलोपौ न। दददे। दददाते। दददिरे। ददिता। ददिष्यते। ददताम्। अददत। ददेत। ददिषीष्ट। अददिष्ट। अददिष्यत॥ त्रपूष् लज्जायाम्॥ २०॥ त्रपते॥
न्यासः
न शसददवादिगुणानाम्?। , ६।४।१२६

अत्र यदि गुण इत्येनेन यस्यैत्त्वं विहितं स एत्राकार उच्यते, ततोऽयमर्थः--अकारस्य गुणस्य न भवतीति। तथा चैत्त्वविधिरनवकाश एव स्यादित्येतद्बुद्धौ कृत्वा नात्र गुणेनाकार एवोच्यते, अपि तु गुणशब्दभिनिर्वृत्त इति दर्शयन्नाह--"गुण इत्येवमभिनिर्वृत्तस्य च" इत्यादि। गुणशब्दमुच्चार्य योऽभिनिर्वृत्तः शब्दस्तस्य सम्बन्धी योऽकारस्तस्य स्थान एत्त्वं न भवतीत्यर्थः। तत्सम्बन्धित्वं पुनस्तस्य तत्स्थानिकत्वात्? तदवयवत्वाच्च यद्यायोगं वेदितव्यम्()। तदेवं गुणशब्दाभिनिर्वृत्तस्य सम्बन्ध्यकारः प्रतिषेधस्य निमित्तम्(), इतरस्तु विधेरित्येव विधिप्रतिषेधयोर्विषयविभागः। "विशशसतुः" इति। "शसु हिंसायाम्()" (धा।पा।७२७)। "दददे" इति। "दद दाने" धा।पा।१७)। "ववमतुः" इति। "टु वम उद्()गिरणे" (धा।पा।८४९) "विशशरतुः" इति। "शृ हिंसायाम्()" (धा।पा।१४८८)। "गुणशब्दभिनिर्वृत्तस्य" इत्यादिना यदुक्तं तस्यार्थमुदाहरणे दर्शयति। "विशशरतुः" इत्यत्रारित्ययं शब्दो गुणशब्दाभिनिर्वृत्तः। तत्सम्बन्ध्यकारस्य तदेकदेशात्वात्()। "लुलविथ" इति। अत्राप्योकारो गुणशब्दाभिनिर्वृत्तः तत्सम्बन्ध्यकारस्य तत्स्थानिकत्वात्()। ननु "विशशरतुः" इत्यत्राकारमात्रं ग#उणशब्देनाभिनिर्वृत्तम्(), नाऽर्()शब्दः! नैतदस्ति; रेफस्य गुणभक्तत्वात्()। तथा च भाष्यम्()--"अर्भवति गुणो भवति, आर्भवति वृद्धिर्भवति--रेफसहितो गुणवृद्धिसंज्ञो भवति" इति॥
बाल-मनोरमा
न शसददवादिगुणानाम् १०७, ६।४।१२६

न शसदद। शस दद वादि गुण--एषां द्वन्द्वः। अवयवषष्ठी। गुणशब्देन विहित एव गुणोऽत्र गुणशब्देन विहितत्वाऽभावान्नायं निषेधः। पृ()धातोः पपरतुरिति तु गुणस्योदाहरणम्, गुणशब्देन विहितो योऽर् तदवयवत्वादकारस्येति बोध्यम्। ददद इति। ददेर्लिटस्तादेशस्य एशि द्वित्वे "अत एकहल्मध्ये" इति प्राप्तावेत्तवाभ्यासलोपौ न भवतः। ष्वद स्वर्देति। आस्वादनम्--अनुभवः। प्रीतिविषयीभावात्मिका रुचिर्वा। तदाह-- अयमिति। प्रत्येकाभिप्रायमेकवचनम्।

तत्त्व-बोधिनी
न शसददवादिगुणानाम् ८२, ६।४।१२६

न शसदद। "शसु हिंसायां" दन्त्यान्तः। सूत्रेऽवयवावयवभावः षष्ठ()र्थः। तथा च शसददवादीनां योऽकार इत्यन्वयसंभवेऽपि अकारस्य गुणरूपत्वाद्भेदनिबन्धना षष्ठी न संभवतीत्याशङ्क्य तन्निर्वाहार्थं व्याचष्टे-- गुणशब्देन भावितस्येति। भावितत्वं च साक्षात्पेरम्परासाधारणम्। तथा च शशरतुः पपरतुरित्यादौ गुणशब्देन क्रियमाणो योऽर् तदवयवोऽकारः। लुलविथेत्यादौ तु गुणशब्देन क्रियमाणो य ओकारस्तत्स्थानिकस्याऽवादेशस्यावयवोऽकार इत्यर्थान्नास्त्यत्रानुपपत्तिः। दददे इति। शशसतुः। शशसुः। ववमतुः। ववमुरित्यादावपि निषेधो बोध्यः। ष्वद स्वर्द। अयमिति। प्रत्येकाभिप्रायेणोक्तमित्याहु। सकर्मक इति। स्वदस्व हव्यानि। अनुभवेत्यर्थः। अकर्मक इति। "अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा"- इति श्रीहर्षः। न स्वदते। न रोचत इत्यर्थः।