पूर्वम्: ६।४।१४९
अनन्तरम्: ६।४।१५१
 
सूत्रम्
हलस्तद्धितस्य॥ ६।४।१५०
काशिका-वृत्तिः
हलस् तद्धितस्य ६।४।१५०

तद्धिते इति निवृत्तम्। हल उत्तरस्य तद्धितयकारस्य उपधायाः ईति परतो लोपो भवति। गार्गी। वात्सी। हलः इति किम्? कारिकेयी। तद्धितस्य इति किम्? वैद्यस्य भार्या वैध्यी।
न्यासः
हलस्तद्धितस्य। , ६।४।१५०

"तद्धित इति निवृत्तम्()" इति। उत्तरसूत्रे तद्धितग्रहणात्()। तेनायमीत्येव विधिः। "गार्गी" इत्यादि। गर्गादिशब्देभ्यो यञन्तेभ्यः "यञश्च" ४।१।१६ इति ङीप्()। "कारिकेयी" इति। "स्त्रीभ्यो ढक्()" ४।१।१२०, तदन्तात्? "टिङ्ढाणञ्()" ४।१।१५ इति ङीप्()। "वैधी" इति। "पुंयोगादाख्यायाम्()" ४।१।४८ इति ङीष्()॥
बाल-मनोरमा
हलस्तद्धितस्य ४६५, ६।४।१५०

हलस्तद्धितस्य। "हल" इति दिग्योगे पञ्चमी। "परस्ये"त्यध्याहार्यम्। "यस्येति चे"ति सूत्रादीतीत्यनुवर्तते, "सूर्यतिष्यागस्त्ये"त्यतः "उपधाया" इति षष्ठ()न्तं च, "ढे लोपोऽकद्र्वाः" इत्यतो "लोप" इति च। तदाह--हलः परस्येत्यादिना। अकारलोपात्प्रागेव यकारलोपो न संभवति, अकारे सति यकारस्य ईकारपरकत्वाऽभावात्। ननु कृतेऽकारलोपे खतं यकारस्य उपधात्वम्?। नच अल्लोपस्य स्थानिवत्त्वं शङ्क्यं, यलोपविधौ तन्निषेधादिति चेन्न, यलोपे कर्तव्येऽल्लोपस्याभीयत्वेनाऽसिद्धतया यकारस्य उपधात्वसंभवात्। उपधाग्रहणाननुवृत्तौ त्वल्लोपस्याऽसिद्धत्वाद्यकारस्य ईकारपरकत्वाऽभावाल्लोपो न स्यात्। यदा तु सूत्रारम्भसामथ्र्यादेवाकारव्यवधाने।ञपि यकारस्य लोपः सम्भवतीत्युच्यते, तदोपधाग्रहणानुवृत्तिर्मास्तु। गार्गीति। इह "गोत्रं च चरणैः सहे"ति जातित्वेऽपि "जातेरस्त्रीविषया"दिति न ङीष्, योपधत्वात्। अनपत्याधिकारेति। "तस्यापत्य"मित्यपत्याधिकारविहितभिन्नयञन्तान्न ङीबिति वक्तव्यमित्यर्थः। द्वैप्येति। द्वीपे भवेति विग्रहे "द्वीपादनुसमुद्र यञि"ति यञ्। आदिवृद्धिः। "यस्येति च"। टापि सवर्णदीर्घः। अस्य यञोऽपत्याधिकारविहितत्वाऽबावान्न ङीबिति भावः। नन्वपत्यान्न ङीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासादधिकारग्रहणं किमर्थमित्यत आह-अधिकारग्रहणादिति। "इह ने"ति शेषः। देवस्यापत्यमिति विग्रहे "देवाद्यञञौ" इति यञ्, आदिवृद्धिः, "यस्येति च"। दैव्यशब्दाट्टाप्, सवर्णदीर्घः, दैव्येति रूपम्। "अनपत्यान्न ङी]बित्युक्ते त्वस्य यञ आपत्यत्वान्ङीब्निषेधो न स्यात्। अधिकारग्रहणे तु अत्रापि निषेधः स्यादेव, अस्य यञ आपत्यत्वे।ञपि "तस्यापत्य"मित्यधिकारबहिर्भूतत्वात्। तदेतदुपपादयति--देवादिति। "देवाद्यञञौ" इति तु "तस्यापत्य"मित्यदिकारात्प्रागेव "प्राग्दीव्यतो"णित्यधिकारपठितः। स चाऽपत्यादिविकारान्तार्थेषु साधारणत्वादपत्यार्थकोऽपि भवति, न त्वपत्याधिकारपठित इत्यर्थः। यद्यपि "यञश्चे"ति सूत्रे "आपत्यग्रहणं कर्तव्य"मित्येव भाष्ये दृश्यते, तथापि तत्र आपत्यपदमपत्याधिकारविहितपरमिति मनोरमायां शब्दरत्ने च प्रपञ्चितम्।

तत्त्व-बोधिनी
हलस्तद्धितस्य ४१९, ६।४।१५०

हलस्तद्धितस्य। "हल"इति पञ्चमी। "यस्येति चे"त् सूत्रात्--ईतीत्यनुवर्तते। "नस्ताद्धिते"इत्यतस्तद्धित नानुवर्तते, "आपत्यस्य चे"त्यत्तरसूत्रे पुनस्तद्धितग्रहणात्तदाह---हल उत्तरस्येत्यादि। "तद्धिते"इत्यनुवृत्तौ त्विहापि स्यात्,---साङ्काश्यकः। काम्पिल्यकः। "सङ्काशादिभ्यो णयः"। ततो "धन्वयोपधा"दिति वुञ्। उपधाभूतस्येति। "सूर्यतिष्ये"त्यत "उपधाया"इत्यनुवर्तत इति भावः। ननु "यस्येति चे"ति यञोऽकारलोपे कृते यकारस्य ईकारपरत्वमस्त्येव किमुपधाग्रहणानुवृत्त्या()। न चाऽल्लपोस्य स्थानिवद्भावो, यलोपे तन्निषेधात्। अत्राहुः--यलोपे कर्तव्येऽल्लोपस्याभीयत्वनाऽसिद्धत्वादुपधाग्रहणानुवृत्तिरभ्युपगन्तव्येति। अन्ये त्वाहुः--सूत्रारम्भसामथ्र्यादल्लोपस्याऽसिद्धकत्वं न भवति। तथा चोपधाग्रहणं विनापि नात्र क्षतिः। एवं च "सूर्यतिष्ये"ति सूत्रेऽप्युपधाग्रहणं त्यक्तुं शक्यमुक्तयुक्तेरिति। गार्गीति। गोत्रप्रत्ययान्तस्य जातित्वेऽपि योपधत्बादत्र "जाते"रिति ङीषिन भवति। तथाच आद्युदात्तमेवेदं पदम्। अनपत्याधिकारेति। यद्यपि "आपत्यग्रहणं कर्तव्य वार्तिकम्, तथाप्यपत्याधिकारविहितपरं तत्। तादृशश्च गर्गादियञेव न तु देवाद्यञ्। तस्याऽपत्याधिकाररात्प्रागेवन पाठात्। अतएव भाष्यकृता "यञश्चे"त्यत्र "कञ्क्वरपोऽयञश्चे"ति, "गर्गादिभ्यो य"ञित्यत्र "अय"ञिति अकारः प्राश्लिष्टः। एवं च "यञञोश्चे"ति सूत्रेऽपि "यस्कारदिभ्यो गोत्रे---अयञञोश्चे"त्यकारः प्रश्लिष्टः। एतच्च मनोरमाग्रन्थानुरोधोनोक्तम्। नव्यास्तु---अधिकारग्रहणमिहऽपार्थकं, यथाश्रुतवार्तिकेनैव द्वीपे भवा द्वेप्येति रूपसिद्धेः। न च देवस्यापत्यं स्त्री दैव्येति रुपाऽसिद्धि शङ्क्या, "अयञश्चे"ति भाष्यकारीयमिष्कर्षात्तत्सिद्धेः। नहि "देवाद्यञञौ"इत्यत्राऽयञित्यकारः प्रश्लेष्टं शक्यते। किंचाधिकारग्रहणे अभिजितोऽपत्यं स्त्रीत्यणन्तात्स्वार्थे "अभिजिद्विदभृ"दित्यादिना यञि "आभिजिती"ति रूपं न सिध्येत्।"श्रुमदणोऽयञ"इत्यकारप्रश्लेषेण भाष्यकाररीतियाऽपीह ङीपः संभवादित्याहुः। स्यादेतत्---अकारं प्रश्लिष्य गर्गादिभ्योऽयञि कृते गाग्र्य इति रूपं न सिध्येत्। मैवम्। वार्तिकप्रत्याख्यानाय भाष्यविरुद्ध इति स्पष्टमेव।