पूर्वम्: ६।४।१६
अनन्तरम्: ६।४।१८
 
सूत्रम्
तनोतेर्विभाषा॥ ६।४।१७
काशिका-वृत्तिः
तनोतेर् विभाषा ६।४।१७

तनोतेरङ्गस्य सनि झलादौ विभाषा दीर्घो भवति। तितांसति, तितंसति। झलि इत्येव, तितनिषति। सनीवन्तर्ध इत्यत्र तनोतेरुपसङ्ख्यानादिडागमो भवति विकल्पेन।
न्यासः
तनोतेर्विभाषा। , ६।४।१७

"तनोतेरुपसंख्यानात्()" इति। "तनिपतिदरिद्राणाम्()" (कात्या।वा।५०५९-७।२।४९) इत्यस्मात्()। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। प्रकृतिगरहणपरिभाषाया (व्या।प।७७) तदन्तादपि विकल्पः सम्भवेत्()--तन्तंसति॥
बाल-मनोरमा
आ च हौ ३२९, ६।४।१७

"आ" इति लुप्तप्रथमाकम्। जहातेरिति। "जहातेश्चे"त्यतस्तदनुवृत्तेरिति भावः। चादिदीताविति। "इद्दरिद्रस्ये"त्यतः, "ई हल्यघो"रित्यतश्च तयोरिह चकारेणानुकर्षादिति भावः। जहितात्-- जहीतात् जहितम्--जहीतम् जहित--जहीत। जहानि जहाव जहाम। लङ्याह-- अजहादिति। अजहिताम्--अजहीताम् अजहुः। अजहा इति। अजहितम्--अजहीतम् अजहित-अजहीत। अजहाम् अजहिव-अजहीव अजहिम - अजहीम।

बाल-मनोरमा
तनोतेर्विभाषा ४५०, ६।४।१७

तनोतेर्विभाषा। उपधाया दीर्घ इति। "नोपधायायाः" इत्यतो "ढ्रलोपे" इत्यतश्च तदनुवृत्तेरिति भावः। झलादौ सनीति। "अज्झने"त्यतस्तदनुवर्तते। तत्र झलादाविति भाष्ये स्थितमिति भावः। आशङ्कायामिति। आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः। ()आआ मुमूर्षतीति। शङ्कितमरणो भवतीत्यर्थः। कूलं पिपतिषतीति। शङ्कितपतनं भवतीत्यर्थः। "तनिपती"ति इट्पक्षे रूपम्। पतेःसनि इडभावपक्षे त्वाह--