पूर्वम्: ६।४।२४
अनन्तरम्: ६।४।२६
 
सूत्रम्
दन्शसञ्जस्वञ्जां शपि॥ ६।४।२५
काशिका-वृत्तिः
दंशसञ्जस्वञ्जाम् शपि ६।४।२५

दंश सञ्ज ष्वञ्ज इत्येतेषाम् अङ्गानां शपि परत उपधाया नकारस्य लोपो भवति। दशति। सजति। परिष्वजते।
न्यासः
दंशसञ्जस्वञ्जां शपि। , ६।४।२५

"दंश दंशने" (धा।प।९८९), "ष्वन्ज परिष्वङ्गे (धा।पा।९७६)। "परिष्वजते" इति। "उपसर्गात्? सुनोति" ८।३।६५ इत्यादिना षत्वम्()॥
बाल-मनोरमा
दंशसञ्जस्वञ्जां शपि २३२, ६।४।२५

दंशसञ्ज। रञ्जेश्च। व्याख्यासौकर्याय सूत्रद्वयमुपात्तम्। नलोप इति। नकारस्य लोप इत्यर्थः, "श्नान्नलोपः" इत्यतस्तदनुवृत्तेरिति। परिष्वजते इति। "परिनिविभ्यः" इति षत्वमिति भावः। संयोगात्परत्वाल्लिटः कित्त्वेऽप्राप्ते आह-- श्रन्थीति। व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्रमित्याह-- दभतुरिति। "अत एकहल्मध्ये" इति सूत्रभाष्ये "देभतु"रित्युदाह्मतम्। "सदेः परस्य लिटी"ति सूत्रभाष्ये "सस्वजे"इत्युदाह्मतम्। ततश्च एकदेशानुमत्या "श्रन्थिग्रन्थी"त्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थं भाष्यानुमतमिति विज्ञायत इत्यर्थः। सदेरिति। "सदेः परस्य लिटी"ति षत्वनिषेधसूत्रे स्वञ्जेरपि ग्रहणमित्यर्थः। ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वं न स्यादिति लब्धम्। तदाह--अतोऽभ्यासात्परस्येति। परिषस्वजे परिषस्वञ्जे इति। "परस्ये"त्युक्तेरुत्तरखण्डस्यैव षत्वनिषेधो न त्वभ्यासस्य। कित्त्वपक्षे नलोपः। सस्वञ्जाते। सस्वजाते। सस्वजिरे। क्रादिनियमादिडित्याह-- सस्वजिषे सस्वञ्जिषे इति। सस्वञ्जाथे-- सस्वजाथे। सस्वञ्जिध्वे--सस्वजिध्वे। सस्वञ्जे-- सस्वजे।सस्वञ्जिवहे--सस्वजिवहे। सस्वञ्जिमहे-- सस्वजिमहे। स्वङ्क्तेति। स्वञ्ज्--ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसंपन्नञकारस्य निवृत्तौ नकारस्याऽनुस्वारे तस्य परसवर्णेन ङकारे गकारस्य चर्त्वे रूपम्। एवमग्रेऽपि। स्वजेतेति। "दंशसञ्जे"ति शपि नलोप इति भावः। ननु "प्रत्यष्वह्क्ते"त्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाऽभावात् कथम् "उपसर्गात्सुनोती"ति षत्वमित्यत आह-- प्राक् सितादिति।परिनिविभ्यस्त्विति। "परस्य स्वञ्जे"रिति शेषः। ननु परिनिविभ्यः परस्यापि स्वञ्जेः "परिनिविभ्यः सेवसितसयसिवुसहसुट्()स्तुस्वञ्जा"मिति नित्यमेव षत्वमुचितं, "प्राक्सिता"दिति सूत्रविषयत्वादित्यत आह-- तदर्थमेवेत्यादि। परिनिवीति। नित्यषत्वविधौ स्वञ्जिरप्युपात्तः। ततः "उपसर्गात्सुनोती"त्येव तस्य षत्वे सिद्धे पुनरुपादानं "सिवादीनां वाऽड्व्यवायेऽपी"त्युत्तरसूत्रे षत्वविधौ अनुवृत्त्यर्थमेव संपद्यते। परिनिविभ्यः परस्य स्वञ्जेः "सिवादीनां वे"ति षत्वविकल्पार्थं पूर्वसूत्रे "परिनिविभ्यः सेवे"त्यत्र स्वञ्जिग्रहणमिति पर्यवस्यतीत्यर्थः। हद। अनिडयम्। क्रादिनियमादिट्--जहदिषे। जहदिध्वे। जहदिवहे जहदिमहे। हत्तेति। लुटि तासि दस्य चत्र्वम्। अहत्तेति। "झलो झली"ति सिज्लोपः। गुपादयोऽष्टानुदात्तेतो गताः। अथ परस्मैपदिन इति। "कित निवासे" इत्यन्ता" इति शेषः। ञि ष्विदेति। ञिराकारश्च इत्। सेट्।स्वेदति। सिष्वेद स्विष्विदतुः। स्वेदेत्। स्विद्यात्। अस्वेदीत्। अस्वेदिष्यत्। स्कन्दिरिरित्। अनिट्। भारद्वाजनियमात्थलि वेडित्याह-- चस्कन्दिथ चस्कन्त्थेति। अनिट्पक्षे चस्कन्द् थ इति स्थिते "खरि चे"ति दकारस्य तकारः। चस्कन्दिव चस्कन्दिम। स्कन्त्तेति। लुटि तासि चर्त्वेन दस्य तः। स्कन्त्स्यतीति। स्ये दस्य चत्र्वम्। स्कदन्तु। अस्कन्दत्। स्कन्देत्। आशीर्लिङि विशेषमाह-- नलोप इति। इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः। अस्कददिति। लुङि अङि सति ङित्त्वान्नलोप इति भावः। अङभावे आह-- अस्कान्त्सीदिति। अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षूधातौ। अतोऽत्र वृद्धौ दस्य चर्त्वेन त। अस्कान्त्तामिति। हलन्तलक्षणवृद्धौ "झलो झली"ति सिज्लोपे दस्य चत्र्वम्। अस्कान्त्सुरिति। उसि सिचि वृद्धौ दस्य चत्र्वम्। अस्कान्त्सीः अस्कान्त्तम् अस्कान्त्त। अस्कान्त्सम् अस्कान्त्स्व। अस्कान्त्स्म।