पूर्वम्: ६।४।४४
अनन्तरम्: ६।४।४६
 
सूत्रम्
सनः क्तिचि लोपश्चास्यान्यतरस्याम्॥ ६।४।४५
काशिका-वृत्तिः
सनः क्तिचि लोपश् च अस्य अन्यतरस्याम् ६।४।४५

सनोतेरङ्गस्य क्तिचि प्रत्यये परत आकार आदेशो भवति, लोपश्च अस्य अन्यतरस्याम्। सातिः, सन्तिः, सतिः। अन्यतरस्यांग्रहणम् विस्पष्टार्थम्, येसम्बद्धं हि विभाषाग्रहणम् इति निवृत्तम् इत्याशङ्क्येत।
न्यासः
सनः क्तिचि लोपश्चास्यान्यतरस्याम्?। , ६।४।४५

अस्यग्रहणमनन्तरस्य क्तिचो लोपो मा भूत; व्यवहितस्यापि नलोपो यथा स्यादित्येवमर्थम्()। अथ क्रियमाणेऽप्यस्यग्रहणे कस्मादेव क्तिचो लोपो न भवति? अस्यग्रहणसामथ्र्यात्()। अथान्यतरस्यांग्रहणं किमर्थम्(), यावता "विभाषा" (६।४।४६) इत्यनुवर्तते? इत्याह--"अन्यतरस्यांग्रहणम्()" इत्यादि। कथं पुनर्विभाषाग्रहणस्य निवृत्तिराशङ्क्यते, यतो विस्पष्टार्थमन्यतरस्यांग्रहँ कृतम्? इत्याह--"यकारसम्भन्धं हि" [ये सम्बबद्धं हि--काशिका] इत्यादि। तद्विभाषाग्रहणं यकारादिप्रत्ययस्य सम्बन्धेन। इह च "ये" इत्येतस्मिन्? निवृत्ते क्तिचो निमित्तान्तरस्योपादानातदतस्तान्निवृत्तौ विभाषाग्रहणमपि निवृत्तमिति कस्यचिदाशङ्का स्यात्(), अतो विस्पष्टार्थमन्यतस्यांग्रहणं क्रियते॥