पूर्वम्: ६।४।८४
अनन्तरम्: ६।४।८६
 
सूत्रम्
न भूसुधियोः॥ ६।४।८५
काशिका-वृत्तिः
न भूसुधियोः ६।४।८५

भू सुधी इत्येतयोर् यणादेशो न भवति। प्रतिभुवौ। प्रतिभुवः। सुधियौ। सुधियः।
लघु-सिद्धान्त-कौमुदी
न भूसुधियोः २०३, ६।४।८५

एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥ सुखमिच्छतीति सुखीः। सुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः। शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः॥
न्यासः
न भूसुधियोः। , ६।४।८५

भ्रूग्रहणेन तदन्तस्य ग्रहणम्(), न केवलस्य। केवलस्य ह्रेकाचो यणादेशप्रापत्यसम्भवादनर्थकं वचनं स्यात्()। उवङादेशप्रतिषेधार्थत्वान्नानर्थकमिति चत्()? न; एवं हि "वर्षाभ्वश्च" ६।४।८४ इति यणादेशविधानमनर्थकं स्यात्(), यदि ह्रयं यणादेशस्य प्रतिषेधः स्यात्()--एवं हि तत्? सर्थकं भवति, नान्यथा? नैतदस्ति; उवङपरतिषेधार्थेऽपि ह्र()स्मस्तन्नियमार्थं स्यात्()। एवं तर्हि यणो यत्रानुवृत्तिस्तस्यैवायं प्रतिषेधो युज्यते। स चानेकाचो विहित इति केवलस्य ग्रहणं न प्राप्नोतीति युक्तमुक्तम्()--भूग्रहणेन तदन्तस्य ग्रहणमिति। "प्रतिभुवौ, प्रतिभुवः" इति। "भुवः संज्ञान्तरयोः" ३।२।१७९ इति क्विप्()। "सुधियौ" इति। शोभनं ध्यायतीति "अन्येभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्(), "ध्यायतेः सम्प्रसारणञ्च" (वा।२९२) इत्युपसंख्यानात्? सम्प्रसारणम्()॥