पूर्वम्: ७।१।१६
अनन्तरम्: ७।१।१८
 
सूत्रम्
जसः शी॥ ७।१।१७
काशिका-वृत्तिः
जसः शी ७।१।१७

अकारान्तात् सर्वनाम्नः उत्तरस्य जसः शी इत्ययम् आदेशो भवति। सर्वे। विश्वे। ये। के। ते। दीर्घोच्चारणम् उत्तरार्हम्। त्रपुणी। जतुनी।
लघु-सिद्धान्त-कौमुदी
जसः शी १५२, ७।१।१७

अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥
न्यासः
जसः शी। , ७।१।१७

शकरः सर्वादेशार्थः, असति तस्मिन्? "आदेः परस्य" १।१।५३ इति वचनादकारमात्रस्य स्यात्()। अथ दीर्घोच्चारणं किमर्थम्(), न ह्यस्व एव विधीयताम्(), अकारान्ताद्ध्ययं विधीयते। अत्राद्गुणेन" (६।१।८७) भवितव्यमिति नास्ति गुणे कृते ह्यस्वस्य दीर्घस्य वा विधाने विशेषः? इत्याह--"दीर्घोच्चारणम्()" इत्यादि। "नपुंसकाच्च" ७।१।१९ इति वक्ष्यति; तत्र त्रपुणी, जतुनी--इत्यत्र दीर्घस्य श्रवणं था स्यादित्येवमर्थं दीर्घोच्चारणम्()। सर्वनाम्न इत्येव--दक्षिणा इमे गाथकाः। अत इत्येव--भवन्तः॥
बाल-मनोरमा
जसः शी २१२, ७।१।१७

सर्वशब्दाज्जसि पूर्वसवर्णदीर्घे प्राप्ते--जसः शी। "अतो भिस" इत्स्मादत इत्यनुवर्तते। "सर्वनाम्नः स्मै" इत्यतः "सर्वनाम्न" इत्यनुवर्तते। तदाह--अदन्तादित्यादिना। "शी"ति दीर्घोच्चारणं "नपुंसकाच्चे"त्युत्तरार्थम्। तेन "वारिणी" इति सिध्यति। अनेकाल्वादिति। नतु शित्त्वप्रयुक्तं सर्वादेशत्वमत्रेति भावः। ननु "नानुबन्धकृतमनेकाल्त्वम्" इत्यस्ति परिभाषा। अनुबन्धः=इत्, तत्प्रयुक्तमनेकाल्त्वं सर्वादेशनिमित्तं न भवतीत्यर्थः। ततश्च "शी"त्यत्र शकारस्य लशक्वतद्धित इति इत्संज्ञकत्वात्कथं तत्प्रयुक्तमनेकाल्त्वम्। अत एव "अवर्णस्त्रसावनञः" इत्यत्र ऋकारमितमादाय "तृ" इत्यादेशस्य नानेकाल्()त्वम्। अन्यथा तस्यापि सर्वादेशत्वापत्तेः। अतः शित्त्वप्रयुक्तमेवात्र सर्वादेशत्वमाश्रयितुं युक्तमित्याशङ्क्य निराकरोति--नचेत्यादिना। "अर्वणस्तृ" इत्यादाविव नानुबन्धकृतमनेकाल्वमिति नेत्यन्वयः। शीति शकारस्य "लशक्वतद्धिते" इति इत्संज्ञा वक्तव्या। तेन च सूत्रेण प्रत्ययादिभूतानां लशकवर्गाणामित्संज्ञा विहिता। प्रकृते च "शी"त्यसय प्रत्ययाधिकारस्थत्वाऽभावान्न स्वतः प्रत्ययत्वं, किंतु जसादेशत्वेन स्थानिवद्भावात्प्रत्ययत्वं वक्तव्यम्। स्थानिवद्भावश्च आदेशभावमापन्नस्य "शी"त्यस्य भवति। एवंचादेशत्वसिद्धेः प्रागादेशविधिदशायां "शी"ति शकारस्य इत्संज्ञाया असिद्धेरनेकाल्त्वमुप्रतिहतम्। अत एव "शित्त्वात्सर्वादेश" इत्यपि निरस्तम्। "तृ" इत्यत्र त्वादेशभावात्प्रागेव ऋकारस्य इत्संज्ञकत्वान्न तत्प्रयुक्तमनेकाल्त्वमिति वैषम्यमित्यभिप्रेत्य परिहरति--सर्वादेशत्वात्प्रागिति। शीभावे सति सर्व ई इति स्थिते आद्गुणं सिद्धवत्कृत्याह--सर्वे इति।

बाल-मनोरमा
युष्मद्समदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ , ७।१।१७

युष्मदस्मदोः षष्ठी। षष्ठ()आदिविशिष्योरिति। षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः। षष्ठ()आदिविशिष्टयोरिति यावत्। षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति, "पदस्ये"त्यधिकारविरोधात्। पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम्। न हि षष्ठ()आदिविभक्तिषु परतः पत्वमस्ति। भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात्। स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते।

तत्त्व-बोधिनी
जसः शी १७९, ७।१।१७

जसः शी। दीर्घोच्चारणमुत्तरार्थं-वारिणी मधुनी। अनेकाल्त्वादिति। न तु शित्त्वादिति भावः। इत्संज्ञाया एवाभावादिति। "तृ"इत्यत्रोपदेशकाल एव ऋकारस्येत्संज्ञा, शीभावस्य तु सर्वादेशत्वानन्तरं स्थानिवत्त्वेन प्रत्ययत्वे लब्धे "लशक्वतद्धिते" इति प्रत्ययादेःशस्येत्संज्ञेति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति भावः।