पूर्वम्: ७।१।१९
अनन्तरम्: ७।१।२१
 
सूत्रम्
जस्शसोः शिः॥ ७।१।२०
काशिका-वृत्तिः
जश्शसोः शिः ७।१।२०

नपुंसकादङ्गादुत्तरयोः जश्शसोः शि इत्ययम् आदेशो भवन्ति। कुण्डानि तिष्थन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्ति इति।
लघु-सिद्धान्त-कौमुदी
जश्शसोः शिः २३८, ७।१।२०

क्लीबादनयोः शिः स्यात्॥
न्यासः
जसिशसोः शिः। , ७।१।२०

जसीत्यत्रेकार उच्चारणार्थः। "कुण्डानि" इति। "नपुंसकस्य झलचः" ७।१।७२ इति नुम्(), "सर्वनामस्थाने च" ६।४।८ इति दीर्घ-। अथेह कस्मान्न भवति--कुण्डं कुण्डं ददाति, "संख्यैकवचनाच्च वीप्सायाम्()" ५।४।४३ इति शस्(), कुणाडशो ददाति? इत्याह--"जसा साहचर्यात्()" इत्यादि। एतच्चोद्यपरिहारवचनं यदार्थप्रकरणादेर्वृत्तो कुण्डादिशब्द एकवचनो भवति तदा वेदितव्यम्(), न त्वन्यदा। शस्विधौ हि वृत्तिस्थैकार्थताऽ‌ऽश्रीयते, न वाक्यस्था। अर्थप्रकरणादिरहितः कुण्डादिशब्दो वृत्तौ निवृत्तायां विभक्तावेकार्थो न भवतीति शसा न भवितव्यम्()। कस्मात्? पुनः कुण्डादिशब्दो वृत्तौ निवृत्तायं विभक्तावेकार्थो न भवतीति शसा न भवितव्यम्()। कस्मात्? पुनः कुण्डादिशब्दो वृत्तावेकार्थो न भवति? जातिशब्दत्वात्()। जातिशब्दा हि नैकसयामेव जात्याधारभूतायां व्यक्तौ वत्र्तन्ते। किं तर्हि? अनेकस्यामपि। एवञ्च यत्तत्र शस्विधौ प्रत्युदाहरणमुपन्यस्तम्()--"संख्यैकवचनादिति किम्()? घटं घटं ददाति", तदुपपद्यते। यद्यर्थप्रकरणादिरहितो जातिशब्दो वृत्तावेकार्थो न भवति, तदा न भवितव्यमेव शसा॥
बाल-मनोरमा
जश्शसोः शिः ३१०, ७।१।२०

जश्शसोः शिः। "स्वमोर्नपुंसका"दित्यतो नपुंसकादित्यनुवर्तते। तदाह--क्लीबादिति। ज्ञान शि इति स्थिते स्थानिवत्त्वेन प्रत्ययत्वाल्लशक्वतद्धिते इति शकार इत्।

बाल-मनोरमा
बहुवचनस्य वस्नसौ , ७।१।२०

बहुवचनस्य वस्नसौ। उक्तविधयोरिति। षष्ठ()आदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः।

तत्त्व-बोधिनी
जश्शसोः शिः २७२, ७।१।२०

जश्शसोः। जसा साहचर्यादिह सुबेव शस् गृह्रते। तेनेह न---कुण्डशो ददाति।