उपसर्गादुत्तरस्य लभेः खल्घञोः परतः नुमागमो भवति। ईषत्प्रलम्भः। सुप्रलम्भः। दुष्प्रलम्भः। घञि प्रलम्भः। विप्रलम्भः। सिद्धे सत्यारम्भो नियमार्थः, उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, न अन्यत्र। ईषल्लभः। लाभो वर्तते।
"ईषत्प्रलम्भः" इति "ईषद्()दुःसुषु"
३।३।१२६ इत्यादिना खल्()। "दुष्प्रलम्भः" इति। "इदुदुपधस्य"
८।३।४१ इत्यादिना षत्वम्()। "विप्रलम्भः" इति। भावे घञ्()। ननु च "लभेश्च" (७।१।
६४) इत्यनेन नुम्? सिद्धः,
तत्किमर्थोऽयमारम्भः? इत्याह--"सिद्धे" इत्यादि। "अन्यत्र न भवति" इति तद्व्यवच्छेद्यम्()।
"उपसर्गात्? खल्घञोरेव" इत्येष तु विपरीतनियमोऽत्र न सम्भावनियः; "गृधिवञ्च्योः प्रलम्भने"
१।३।६९ इति निर्देशात्()॥