पूर्वम्: ७।१।९८
अनन्तरम्: ७।१।१००
 
सूत्रम्
अम् सम्बुद्धौ॥ ७।१।९९
काशिका-वृत्तिः
अम् सम्बुद्धौ ७।१।९९

सम्बुद्धौ परतश्चतुरनडुहोः अम् आगमो भवति। पूर्वस्य अयम् अपवादः। हे प्रियचत्वः। हे प्रियानड्वन्।
लघु-सिद्धान्त-कौमुदी
अम् संबुद्धौ २६२, ७।१।९९

हे अनड्वन्। हे अनड्वाहौ। हे अनड्वाहः। अनडुहः। अनडुहा॥
न्यासः
अभ्सम्बुद्धौ। , ७।१।९९

पूर्वेणामि प्राप्ते वचनम्()। "हे प्रियचत्वः। हे प्रियानढवन्()" इति। अत्र चतुःशब्दस्य केवलस्य सम्बुद्धिर्न भवतीति दतन्तस्योदाहरणम्()। अनजुहस्तु यदयपि केवलस्य सम्भवति, तथापि तदन्तविधिरत्रेष्यत इति तदन्तस्योदाहरणम्()॥
बाल-मनोरमा
अम्संबुद्धौ , ७।१।९९

ननु अनड्वान् ह् सित्यत्र सुलोपे संयोगान्तलोपे च कृते नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्च "न लोपः प्रातिपदिकान्तस्ये"ति नलोपः किं न स्यात्। नच नुम्विधिसामथ्र्यान्नात्र नलोप इति वाच्यं, नलोपाऽभावस्थले संबुद्धौ "हे अनड्व"नित्यत्र नुग्विधेश्चारितार्थत्वात्। तत्र " न ङसंबुद्ध्यो"रिति नलोपप्रतिषेधादित्यत आह-समयोगान्तेति। हकारलोपस्याऽसिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाऽभावात्पदान्तत्वाऽभावाच्च नलोपो नेत्यर्थः। अनड्वानिति। अनुडुह् सिति स्थिते, आम् यण्, नुम्, सुलोपः, संयोगान्तलोपश्च। अथ संबुद्धौ हे अनडुह् सिति स्थिते चतुरनडुहोरित्यामागमे प्राप्ते--अम्संबुद्धौ। "चतुरनडुहोः" इत्यनुवर्तते। तदाह--चतुरनडुहोरिति। अमो मकार इत्। मित्त्वादन्त्यादचः परः। हे अनड्विन्निति। अम्, यण्, नुम्, सुलोपः, संयोगान्तलोपश्च। अनड्वाहाविति। सर्वनामस्थानत्वादाम्। नुम् तु न, तस्य सावेव विधानात्। अनडुह इति। शसादावचि अविकृत एवानडुहशब्द इति भावः।

तत्त्व-बोधिनी
अम्संबुद्धौ २९३, ७।१।९९

अमा चेति। "विशेषबिहितेनाऽपी"त्यनुषज्यते। "आमा च नुम्न बाध्यते"इति केचित्पठन्ति। तस्याययर्थः--"बह्वनङ्वांही"त्यत्र परत्वादामि कृते पुनःप्रसङ्गविज्ञानात् "नपुंसकस्य झलचः"इति नुम्भवत्येव, न तु बाध्यत इथ। नुमो दत्वमाशङ्क्याह--नुम्विधिसामथ्र्यादित्यादि। विधानसामथ्र्यात्सर्वत्राऽविकृतेन नुमा भवितव्यमिति भावः। नन्वेवमनङ्वास्तत्रेत्यत्र "नश्छवू"ति रुत्वमपि न स्यादिति चेदत्राहुर्भाश्यकाराः---"यं विधिं प्रतुयपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते"इति। भवति हि दत्वं प्रति नुमो विधिरनर्थकः, रुत्वं प्रति तु निमित्तमेवेति। अनङ्वानिति। अनः शकटं वहतीति विग्रहे अनसि वहेः क्विप्। अनसो डश्च। यजादित्वात्संप्रसारणम्। अनडुह्---स् इति स्थिते आम्रुम्सुलोपेषु कृतेषु संयोगान्तलोपेन हकारलोपः।