पूर्वम्: ७।२।१००
अनन्तरम्: ७।२।१०२
 
सूत्रम्
जराया जरसन्यतरस्याम्॥ ७।२।१०१
काशिका-वृत्तिः
जराया जरसन्यतरस्याम् ७।२।१०१

जरा इत्येतस्य जरसित्ययम् आदेशो भवति अन्यत्रस्याम् अजादौ विभक्तौ परतः। जरसा दन्ताः शीर्यन्ते, जरया दन्ताः शीर्यन्ते। जरसे त्वा परिदद्युः, जरायै त्वा परिदद्युः। अचि इत्येव, जराभ्याम्। जराभिः। नुमो विधानात् जरसादेशो भवति विप्रतिषेधेन। अतिजरांसि ब्राह्मणकुलानि। इह अतिजरसं ब्राह्मणकुलं पश्य इति लुग् न भवति, आनुपूर्व्या सिद्धत्वत्। अतिजर अम् इति स्थिते लुक्, अम्भावः, जरस्भावः इति त्रीणि कार्याणि युगपत् प्राप्नुवन्ति। तत्र लुक् तावदपवादत्वादम्भावेन बाध्यते, अम्भावो ऽपि परत्वाज् जरसादेशेन। न च पुनर् लुक्शास्त्रं प्रवर्तते, भ्रष्टावसरत्वात्, इति एवम् एव भवति अतिजरसं ब्राह्मणकुलं पश्य इति। प्रथमैकवचने तृतीयाबहुवचने च अतिजरं ब्राह्मणकुलं तिष्ठति, अतिजरैः इति च भवितव्यम् इति गोनर्दीयमतेन। किं कारणम्? सन्निपातलक्षणो विधिरनिमित्तं तद्विद्घातस्य इति। अन्ये तु अनित्यत्वातस्याः परिभाषायाः अतिजरसं ब्राह्मणकुलं तिष्ठति, अतिजरसैः इत्येवं भवितव्यम् इति मन्यन्ते।
लघु-सिद्धान्त-कौमुदी
जराया जरसन्यतरस्याम् १६१, ७।२।१०१

अजादौ विभक्तौ। (प।) पदाङ्गाधिकारे तस्य च तदन्तस्य च। (प।) निर्दिश्यमानस्यादेशा भवन्ति। (प।) एकदेशविकृतमनन्यवत्, इति जरशब्दस्य जरस्। निर्जरसौ। निर्जरस इत्यादि। पक्षे हलादौ च रामवत्॥ विश्वपाः॥
न्यासः
जराया जरसन्यतरस्याम्?। , ७।२।१०१

"नुमो विधानाज्जरसदेशो भवति विप्रतषेधेन" इति। नुमोऽवकाशः--त्रपूणि जतूनि; जरसावेशस्यावकाशः--जरसौ; अतिजरांसि ब्राआहृणकुलानीतयत्रोभयप्रसह्गे विप्रतिषेधेन परो जरसादेशो भवति। यदि हि पूर्वं नुम्? स्यात्(), नुमा व्यवहितत्वाज्जरसादेशो न लभ्यते, तथापि विहितविशेषणपाश्रयणेन लभ्यते। एवमपि "निर्दिश्यमानस्यादेशा भवन्ति" (व्या।प।१०६) इति जराशब्दस्यादेशे कृते सकारत्? परो नुम्? श्रूयेत। ["श्रूयते" मुद्रित पाठः] अथापि समुस्कस्यादेशः स्यात्()? एवमपि कृतकार्यत्वान्नुम्शास्त्रस्य पुनरप्रवृत्तेरादेशे कृते पुनर्नम्न स्यात्(), तथानिष्टं रूपं प्रसज्येत। अथेहातिजरसं ब्राआहृणकुलं पश्येति जरसादेशे कृते "स्वमोर्नपुंसकात्()" (७।१।२३) इति सुक्कस्मान्न भवति? इत्यत आह--"इह" इत्यादि। जरामतिक्रान्तमिति प्रादिसमासः, "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति ह्यस्वः, द्वितीयैकवचनमम्? इति स्थित एकदेशविकृतस्यानन्यत्वात्()(व्या।पा।१६)कृतेऽपि ह्यस्वत्वे लुक्(), अम्भावः, जरस्भावः--इत्येतानि त्रीणि कार्यामि युगपत्? प्राप्नुवन्ति, तत्र लुगपवादत्वात्? "अतोऽम्()"७।१।२४ इत्यम्भावेन बाध्यते, अम्भावोऽपि परत्वाज्जरसादेशेन। अथ कृते जरसादेशे लुक्? पुनः कस्मान्न भवति? इत्यत आह--"पुनर्लुक्शास्त्रम्()" इत्यादि। न च लुक्शास्त्रं पुनः प्रवत्र्तते; भ्रष्टावसरत्वात्(), तृतीयाबहुवचने किमतजरैब्र्राआहृणकुलैरित्येवं भवितव्यम्(); आहोसविदतिजरसम्(), अतिजरसैरित्येवम्()? इत्यत आह--"अतिजरसम्()" इत्यादि। "गोनर्द्दीयमतेन" इति। तथा हि भाष्ये उक्तम्()--"गोदर्दीय आह--"इषटमेषैतत्? संगृहीतं भवतीति--अतिजरमतिजरैतिति भवितव्यम्()" इति। का पुनरस्य युक्तिः? इत्यत आह--"सन्निपातलक्षण" इत्यादि। यद्यम्भावः, ऐस्भावश्च जरसादेशस्य निमित्तमात्रं स्यात्(), अकारान्तताऽङ्गस्य ताभ्यां विहता स्यात्()। एतच्चायुक्तम्(); तस्मन्निपाते हि तावभिनिर्वृत्तौ नोत्सहेते सां विहन्तुम्()। "अन्ये" इति। सूत्रकारमतानुसारिणः। कस्मात्? पुनस्त एवं मन्यन्ते? इत्यत आह--"अनित्यत्वादस्याः" इत्यादि। अनित्यत्वं पुनरस्याः--"अतो भिस ऐस्()" ७।१।९ इत्यत्र प्रतिपादितम्()॥
बाल-मनोरमा
जराया अरसन्यतरस्याम् २२५, ७।२।१०१

अस्य निर्जरशब्दस्य विशेषं दर्शयितुमाह--जरायाः। "अष्टन आ विभक्तौ" इत्यतो "विभक्ता"वित्यनुवृत्तम्, "अचि र ऋतः" इत्यतोऽनुवृत्तेन "अची"त्यनेन विशेष्यते। "यस्मिन् विधि"रिति तदादिविधिः। तदाह--जराशब्दस्येत्यादिना। ननु जराशब्दस्य विधीयमानो जरसादेशः कथं निर्जरशब्दस्य भवेदित्यत आह--पदेति। पदाधिकारे अङ्गाधिकारे च यस्य यद्विहितं तत्तस्य, तदन्तस्य च भवतीत्यर्थः। जरसादेशश्चाऽयमङ्गाधिकारस्थत्वाज्जराशब्दस्य, तदन्तस्य च भवति, जरसावित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्वं बोध्यम्। यद्यपि "जराया" इत्यस्याऽङ्गविशेषणत्वादेव तदन्तविधिः सिद्धः, तथापि "येन विधि"रित्यस्य प्रपञ्चभूतेयं परिभाषेत्यदोषः। अत एव पदमङ्गं च विशेष्यं, विशेषणेन च तदन्तविधि"रिति प्रौढमनोरमायामुक्तम्। ननु जराशब्दान्तस्य विधीयमानो जरसादेशो निर्जरशब्दस्य कृत्स्नस्य स्यात्, अनेकाल्त्वादित्याक्षिप्य समाधत्ते--अनोकाल्त्वादिति।

निर्दिश्यमानस्येति। प्रत्यक्षनिर्दिशय्मानस्यैवेत्यर्थः। अनया परिभाषया जराशब्दस्यैव जरस्। जराशब्द एव ह्रत्र स्थानी प्रत्यक्षनिर्दिष्टः। जराशब्दान्तस्य तु निर्द्देशस्तदन्तविधिलभ्यत्वादानुमानिक इति भावः। इयञ्च परिभाषा "षष्ठी स्थानेयोगे"ति सूत्रसिद्धार्थकथनपरेति तत्रैव भाष्ये स्पष्टम्। ननु निर्जरशब्दस्य जराशब्दान्तत्वाऽभावात्कथमिह जरसादेश इत्यत आह--एकदेशेति। "छिन्नेऽपि पुच्छे ()आआ ()औव, न चा()आओ नच गर्दभ" इति न्यायादिति भावः। निर्जरसा। निर्जरस इति। प्रथमाद्वितीययोर्द्विवचने बहुवचने च रूपम्। अमि "निर्जरस"मित्युदाहार्यम्। ननु तृतीयैकवचने पञ्चम्येकवचने च्, निर्जर-आ, निर्जर-अस् इति स्थिते इनाऽ‌ऽतोः कृतयोर्जरसादेशे निर्जरसिन निर्जरसादिति प्राप्तं, तथा चतुर्थ्येकवचने षष्ठ()एकवचने च-निर्जर ए, निर्जर अस्-इति स्थिते, यादेशे, स्यादेशे च सत्यजादिविभक्त्यभावाज्जरसादेशाऽभावे निर्जराय निर्जरस्येति प्राप्तं, तत्राह--इनादीनिति। इन-य-आत्-स्येत्यादेशान्-नुटं च परत्वाद्बाधित्वा जरसादेशः। ततस्च अदन्तत्वाऽभावादिनादयो न भवतीत्यर्थः।

निर्जरसेति। तृतीयैकवचनम्। निर्जसरे इति--चतुर्थ्येकवचनम्। निर्जरस इति--पञ्चम्येकवचने षष्ठ()एकवचने च रूपम्। निर्जरसोः, निर्जरसां, निर्जरसीत्यप्युदाहार्यम्। पक्ष इति। जरसादेशाऽभावपक्ष इत्यर्थः। हलादौ चेति। भिस ऐसादेशे "निर्जरै" रित्येव रूपं न तु जरसादेशे निर्जरसैरिति। अदन्तमङ्गमाश्रित्य प्रवृत्तस्यैसः संनिपातपरिभाषया तद्विघातकजरसादेशनिमित्तत्वाऽयोगात्।

अत वृत्तिकुदुत्प्रेक्षितं मतान्तरं दूषयितुमनुवदति--वृत्तिकृता त्वित्यादिना। "पूर्वविप्रतिषेधेनेत्यादि केचि"दित्यन्तो वृत्तिग्रन्थः। वृत्तिकृता तु इनातोः कृतयोर्जरसि कृते निर्जरसादिति रूपं, न तु निर्जरस इति केचिदित्युक्तमित्यन्वयः। ननु इनादेशमादादेशं च परत्वाद्बाधित्वा जरसि कृते।ञदन्तत्वाऽभावात्कथमिनातौ स्यातामित्यत आह--पूर्वविप्रतिषेधेनेति। विप्रतिषेधे पूर्वस्य प्रवृत्तिर्यत्र बोध्यते तत् पूर्वप्रतिषेधं="विप्रतिषेधे परं कार्य"मिति सूत्रं तेनेत्यर्थः। तत्र परशब्दस्येष्टवाचित्वमाश्रित्य विप्रतिषेधे क्वचित्पूर्वस्य कार्यस्य प्रवृत्त्यभ्युपगमेनेति यावत्॥ नन्विनातोः कृतयोः कतं जरसादेशः, संनिपातपरिभाषाविरोधादित्यत आह--संनिपातपरिभाषाया इति। तथेति। भिस ऐसादेशे जरसादेशाऽभावपक्षे निर्जरैरिति रूपम्। संनिपातपरिभाषाया अन्त्यत्वाज्जरसि कृते तु निर्जरसैरिति रूपान्तरमुक्तमित्यर्थः। तदनुसारिभिति। निर्जरसिनेत्यादि रूपं यैरुक्तं तदनुसारिभिरित्यर्थः। निर्जरस्येत्येवेति। पूर्वविप्रतिषेधेन स्यादेशे कृतेऽजादिविभक्त्यभावान्न जरस्। इनातोः पूर्वविप्रतिषेधे आश्रिते सति एकसूत्रोपात्तत्वात्स्यादेशविषयेऽपि पूर्वविप्रतिषेध आश्रयितुमुचितः। अतो निर्जरस्येत्येकमेव रूपं,न तु "निर्जरस" इत्यपीति भावः।

एतच्चेति। वृत्तिकृदुत्प्रेक्षितं केषांचिन्मतं, तदनुसारिमतं चेत्यर्थः। भाष्यविरुद्धमिति। "टाङसिङसामिनात्स्याः" इत्यत्र नादेश एव विधेयः, इकारोच्चारणं मास्तु। तथा अदादेश एव विधेयो नतु दीर्घ आदिति। रामेणेत्यत्र एकारस्तु योगविभागाद्भवति, तथाहि "बहुवचने झल्येत्" "ओसि च" "आङि चापः" "संबुद्धौ चे"ति सूत्रक्रमः। तत्र आङीति योगविभागः क्रियते। अत एकारः स्यादङि। रामेण। "आपः संबुद्धौ चे"ति सूत्रक्रमः। तत्र आङीति योगविभागः क्रियते। अत एकारः स्यादाङि। रामेण। "आपः संबुद्धौ चे"त्यन्यो योगः। एकारः स्यात्सम्बुद्धौ आङि ओसि च। हे रमे रमया रमयोः। ङसेरदादेशे अकारोच्चारणसामथ्र्यात् "अतो गुणे" इति न पररूपमित्यादि टाङसिङसामिति सूत्रे भाष्ये स्थितम्। निर्जरसिन निर्जरसादिति रूपसत्त्वे एतद्भाष्याऽसङ्गति स्पष्टैव। अत्र इकारस्य आकारस्य च श्रवणाय इनादेशे इकारोच्चारणावश्यकत्वात्। किंच "गोनर्दीयस्त्वाह-अतिजरैरित्येव भवितव्यं संनिपातपरिभाषया" इति "जराया जरसन्यतरस्या"मिति सूत्रे भाष्ये स्थितम्। निर्जरसैरिति रूपाभ्युपगमे #एतदसङ्गतिः स्पष्टैव। अतः पूर्वविप्रतिषेधेनेत्यादि मतान्तरमशुद्धमित्यर्थः।

तत्त्व-बोधिनी
जराया जरसन्यतरस्याम् १९०, ७।२।१०१

जराया जर। "अष्टन आ विभक्तौ" इत्यतो "विभक्ता"वित्यनुवर्त्त्य "अचि र ऋतः" इत्यतो।डनुवृत्तेनाचीत्यनेन विशेष्यते, विशेषणेनेह तदादिविधिः, "यस्मिन् विधिस्तदादावल्ग्रहणे" इत्यस्य तदन्तविधेरपवादत्वादित्याशयेनाह--अजादौ विभक्ताविति। अजादौ किम्? जराभ्याम्। जराभिः। विभक्ताविति किम्()। जराया इदं जारम्। न च "जराया असु"ङेवाऽस्त्विति वाच्यम्। जराशब्दात् "तत्करोती"ति णिचि "णाविष्टवत्--" इति टिलोपे ततः क्विपि णिलोपे चैकदेशविकृतस्यानन्यतया "ज"रित्यस्य जराशब्दत्वादसुङि सति "ङिच्चे"त्यन्त्यस्य प्रवृत्त्या "जसौ" इति रूपापत्तेः। इष्यते त्वत्रापि "जरसौ" "जरस" इति। न च णिलोपस्य स्थानिवद्भावाद्विभक्तिपरत्वाऽभावेन "जरसा"वित्यादि न सिध्यतीति वाच्यम्, "क्वौ लुप्तं न स्थानिव"दिति निषेधात्। यद्यपि "क्वौ लुप्तं न स्थानिव"दिति क्वाचित्कं, तथापीह तदाश्रयणे "जर"सिति गुर्वादेशकरणमेव मानमित्यवधेयम्।

पदाङ्गाधिकार इति। परिभाषेयं "येन विधि"रित्यस्य प्रपञ्चभूता। अतएव मनोरमायां पदमङ्गं च विशेष्यं, विशेषणेन च तदन्तविधि"रित्युक्तम्। "विशेष्य"मिति तु प्रायेणेति बोध्यम्। तेन "अल्लोपोऽनः" इति सूत्रे "अङ्गावयवो योऽ"निति वक्ष्यमाणग्रन्थः [स्वरसतः] सङ्गच्छते। अत्र नव्याः--"नन्वाकारे "तस्य तदुत्तरपदस्य चे"ति प्रचुरः पाठः। "तदन्तस्य चे"ति पाठे तु बहुच्पूर्वकेषु न प्रवर्तन्त इत्याशयेन फलितार्थकथनपरतया "तदुत्तरपदस्य चे"ति पठितं न त्विदमपूर्वं वचन"मिति। सोपसर्गस्य सर्वस्य स्थाने जरसादेशमाशङ्क्याह।

निर्दिश्येति। ननु तदन्तविधिनाऽपि जराशब्दान्तं यदङ्गं तत्रैव निर्दिश्यमानजराशब्दे जरसादेशेन भवितव्यं, न त्वन्यत्रेत्यत आह-एकदेशविकृतस्येति। पदाधिकारेऽपि तदन्तविधाबुदाहरणं--तदन्तस्यापि रुत्वरत्वे "दीर्घाहा निदाघ" इति वक्ष्यति। "अलुगुत्तरपदे" इत्ययमुत्तरपदाधिकारोऽपि पदाधिकारग्रहणेन गृह्रते। तत्फलं तु तत्रैव स्फुटीकरिष्यति। पक्षे इति। जरसादेशभावे।

तदनुसारिभिरिति। ये तु "निर्जरसिने"त्यादि व्याचक्षते तन्मतानुसारिभिरित्यर्थः। निर्जरस्येत्येवेति। पूर्वविप्रतिषेधेन स्यादेशे कृते जरसादेशो न प्रवर्तत इत्येकमेव रूपमिति तेषामाशयः। अतएव "वीतजन्मजरसः परं शुचिब्राहृणः पद"मिति भारविप्रयोगमसमञ्जसं मत्वा "वीतजन्मरजसः" इति पठनीयमिति तैरुक्तम्। एतच्चेति। भाष्यकृताहि "टाङ्सी"ति सूत्रे इनातौ प्रत्याख्याय, नादेशमदादेशं च विधाय, नादेशे परे एत्वम् "आङि चे"ति योगं विभज्य साधितम्। तथा च निर्जरसिनः" निर्जरसा"दित्येतद्भाष्यविरुद्धमिति स्पष्टमेव। न च नादेशे कृते हलि लोपप्रवृत्त्या "अनेने"त्येतन्न सिध्यतीति शङ्क्यम्, नशब्दे परतो विशिष्याऽनादेशविधानात्। तथाहि "अनाप्यकः; इत्यत्र "अन्-नापि" इति पदच्छेदः। नपुंसकत्वात्सोर्लुकि नलोपः। "नापी"ति समाहारद्वन्द्वात्सप्तम्येकवचनम्। न च ङसेरदादेशे कृते पररूपं स्यादित्यपि शङ्क्यम् , अकारोच्चारणसामथ्र्याद्दीर्घसंभवात्। तथा "जराया जरसन्यतरस्या"मित्यस्मिन्नेव सूत्रे भाष्ये उक्तम्-"अतिजरैरिति भवितव्यं संनिपातपरिभाषये"ति। ततश्च "निर्जरसै"रित्यपि बाष्यविरुद्धमेव। एतेन "अतो भिसः" इति सूत्रे "ए"सिति वक्तव्ये ऐस्करणं "निर्जरसै"रिति रूपार्थमिति केषांचिद्व्याख्यानं प्रामादिकमिति स्पष्टमेव