पूर्वम्: ७।२।११०
अनन्तरम्: ७।२।११२
 
सूत्रम्
इदोऽय् पुंसि॥ ७।२।१११
काशिका-वृत्तिः
इदो ऽय् पुंसि ७।२।१११

इदमः इदरूपस्य पुंसि सौ परतः अयित्ययम् आदेशो भवति। अयं ब्राह्मणः। पुंसि इति किम्? इयं ब्राह्मणी।
लघु-सिद्धान्त-कौमुदी
इदोऽय् पुंसि २७५, ७।२।१११

इदम इदोऽय् सौ पुंसि। अयम्। त्यदाद्यत्वे॥
न्यासः
इदोऽय्? पुंसि। , ७।२।१११

बाल-मनोरमा
इदोऽय् पुंसि , ७।२।१११

"इदम् स् इति स्थिते--इदोऽय्पुंसि। "इद" इति स्थानषष्ठी। "इदम" इत्यनुवर्तते। अवयवषष्ठ()एषा। "यः सौ" इत्यतः सावित्यनुवर्तते। तदाद-इदम इति। इदम्शब्दस्यावयवो य इद्, तस्येत्यर्थः। अयम् स् इति स्थिते--सोर्लोप इति। "हल्ङ्यादिने"ति शेषः। अयमिति। सुलोपे प्रत्ययलक्षणमाश्रित्य मकारस्याऽनुस्वारस्तु न, मकारविधिसामथ्र्यात्। अन्यथा अनुस्वारमेव विदध्यात्। "वर्णाश्रये नास्ति प्रत्ययलक्षण"मिति निषेधाच्च। अथ औजसादिषु विशेषमाह--त्यदाद्यत्वमिति। इदम्-औ इति स्थिते

"त्यदादीनाम" इति मस्य अकार इत्यर्थः। पररूपत्वमिति। इद अ औ इति स्थिते "अतो गुणे" इति अकारयोरेकं परूरूपम् अकार इत्यर्थः। इद-औ इति स्थिते।

तत्त्व-बोधिनी
इदोऽय् पुंसि ३०४, ७।२।१११

इदोऽय। पुंसीति किम्()। इयं स्त्री। त्यदादेः संबोधनं नास्तीति। प्रचुरप्रयोगा।डदर्शनमेवात्र मूलम्।