पूर्वम्: ७।२।२१
अनन्तरम्: ७।२।२३
 
सूत्रम्
कृच्छ्रगहनयोः कषः॥ ७।२।२२
काशिका-वृत्तिः
कृच्छ्रगहनयोः कषः ७।२।२२

कृच्छ्र गहन इत्येतयोरर्थयोः कषेर् धातोः निष्ठायाम् इडागमो न भवति। कष्टो ऽग्निः। कष्टं व्याकरणम्। ततो ऽपि कष्टतराणि सामानि। कृच्छ्रं दुःखम्, तत्कारणम् अप्यग्न्यादिकं कृच्छ्रम् इत्युच्यते। गहने कष्टानि वनानि। कष्टाः पर्वताः। कृच्छ्रगहनयोः इति किम्? कषितं सुवर्णम्।
न्यासः
कृच्छ्रगहनयोः कषः। , ७।२।२२

"कष्टः" इति। कषिशिषीत्यादिहिंसार्थधातुवर्गे कषिः पठ()ते। किं पुनः कृच्छ्रं नाम? इत्याह--"कृच्छ्रं दुःखम्()" इति। यद्येवम्(), दुःखे प्राणिधर्मे प्रतिषेध उच्यमानोऽग्न्यादौ न सिध्यते? इत्याह--"तत्कारणमप्यग्न्यादिकं कृच्छ्रमुच्यते" इति। कारणे कार्योपचारात्(), यथा--नङ्वलोदकं पादरोग इति। चिन्त्यं पुनरेतत्? किं मुख्ये सति गौणस्य ग्रहणं युक्तम्()? उत नेति? यदि तु कृच्छ्रशब्दाण्णिजन्तात्? पचाद्यचमुत्वाद्य कृच्छ्रयतीति कृच्छ्र इत्येवं व्युत्पाद्यते, तदा कृच्छ्रशब्दोऽपि मुख्येऽगन्यादावपीति न किञ्चिच्चिन्त्यम्(); न चास्यां व्युत्पत्तौ तत्कारणमप्यगन्यादिकं कृच्छ्रमित्युच्यत इत्येतद्विरुध्यते। यद्धि कृच्छ्रयति तन्नियोगत एव दुःखस्य कारणं भवति॥
बाल-मनोरमा
कृच्छ्रगहनयोः कषः ८६९, ७।२।२२

कृच्छ्रगहनयोः। कृच्छ्रशब्दो दुःखे, तत्कारणे च वर्तते। कष्टं दुःखं, तत्कारणं चेति। "स्यात्कष्टं कृच्छ्रमाभील"मित्यमरकोशवाक्यम्। दुःखकारणे उदाहरति-- कष्टो मोह इति। गहने उदाहरति-- कष्टं शास्त्रमिति। गहनशब्दं विवृणोति-- दुरवगाहमिति।

तत्त्व-बोधिनी
कृच्छ्रगहनयोः कषः ७१४, ७।२।२२

कृच्छ्रगहनयोः। कृच्छ्रं दुःखं, तत्कारणं च लक्षणया गृह्रते। कषतिहिंसार्थः। कष्टो मोह इति। दुःखहेतुरित्यर्थः।