पूर्वम्: ७।२।४०
अनन्तरम्: ७।२।४२
 
सूत्रम्
इट् सनि वा॥ ७।२।४१
काशिका-वृत्तिः
इट् सनि वा ७।२।४१

वृ̄तः सनि वा इडागमो भवति। वुवूर्षते, विवरिषते, विवरीषते। प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति। ऋ̄कारान्तेभ्यः तितीर्षति, तितरिषति, तितरीषति। आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते। सनि ग्रहगुहोश्च ७।२।१२ इति इट्प्रतिषेधे प्राप्ते पक्षे इडागमो विधीयते। इटश्च वृ̄तो वा ७।२।३८ इति पक्षे दीर्घः। चिकीर्षति, जिहीर्षति इत्यत्र उपदेशाधिकारात् लाक्षणिकत्वाच् च इडागमो न भवति।
न्यासः
इट्? सनि वा। , ७।२।४१

"वुवूर्षते" इति। "इको झल्()" १।२।९ इति सनः कित्त्वम्(), "अज्झनगमां सनि" ६।४।१६ इति दीर्घः, "उदोष्ठ()पूर्वस्य" ७।१।१०२ इत्युत्वम्(), रपरत्वम्()। अतेह कस्मान्न भवति--चिकीर्षति, जिहीर्षतीति, अस्ति दीर्घत्वे कृते प्राप्तिः? इत्यत आह--"चिकीर्षति, जिहिर्षति" इति। गतार्थम्()॥
बाल-मनोरमा
इट् सनि वा ४५३, ७।२।४१

इट् सनि वा। "वतो वे"त्यतो "वृ()त" इत्यनुवर्तते इति मत्वाह-- वृङ्वृञ्भ्यामित्यादि। "सनि ग्रहगुहोश्चे"त्यस्यापवादः। चिकीर्षतीत्यादौ "अज्झने"ति दीर्घ कृते सनि नेदं प्रवर्तते, "एकाच उपदेशे" इत्यत उपदेशे इत्यनुवर्त्त्य उपदेशे ऋकारान्तादिति व्याख्यानात्। तितरिषति-- तितरीषतीति। तृ()धातोः सनि लटि "वृ()तो वे"ति दीर्घः। इडभावे त्वाह- तितीर्षतीति। "इको झ"लिति कित्त्वाद्गुणाऽभावे "तृ? इत्यस्य ऋकारस्य इत्त्वे रपरत्वे "हलि चे"ति दीर्घ इति भावः। विवरिषतीति। वृञ्धातोः सनि इटि "वृ()तो वे"ति दीर्गविकल्पः। इडभावे त्वाह-- वुवूर्पतीति। उदोष्ठ()ए"त्युत्वे रपरत्वे "हलि चे"ति दीर्घः। वुवूर्षते इति। ङित्त्वादात्मनेपदेम्। दुर्ध्वूर्षतीति। "द्वृ कौटिल्ये""अज्झने"ति दीर्घः। "उदोष्ठ()ए त्युत्वे, "हलि चे"ति दीर्घ इति भावः।

तत्त्व-बोधिनी
इट् सनि वा ३९३, ७।२।४१

इट्सनि वा। चिकीर्षतीत्यादौ "अज्झनगमा"मिति दीर्घे कृते नेदं प्रवर्तते, "एकाच उपदेशे" इत्यत उपदेश इत्यनुवर्त्त्य , उपदेशे ऋकारान्तादिति व्याख्यानात्। अत एवेटं विनैवोदाहरति-- दुध्वूर्षतीति। "ध्वृ कौटिल्यै"। "अज्झने"ति दीर्घः। "#उदोष्ठ()पूर्वस्ये"त्युत्वं। रपरत्वं। "हलि चे"ति दीर्घः।