पूर्वम्: ७।२।४२
अनन्तरम्: ७।२।४४
 
सूत्रम्
ऋतश्च संयोगादेः॥ ७।२।४३
काशिका-वृत्तिः
ऋतश् च संयोगादेः ७।२।४३

ऋदन्ताद् धातोः संयोगादेः उत्तरयोः लिङ्सिचोरात्मनेपदेषु वा इडागमो भवति। ध्वृषीष्ट, ध्वरिषीष्ट। स्मृषीष्ट, समरिषीष्ट। अध्वृषाताम्, अध्वरिषाताम्। अस्मृषाताम्, अस्मरिषाताम्। ऋत इति किम्? च्योषीष्ट। प्लोषीष्ट। अच्योष्ट। अप्लोष्ट। संयोगादेः इति किम्? कृषीष्ट। हृषीष्ट। अकृत। अहृत आत्मनेपदेषु इत्येव, अध्वार्षीत्। अस्मार्षीत्। संस्कृषीष्ट, समस्कृत इत्यत्र उपदेशाधिकारात्, अभाक्तत्वाच् च सुट इडागमो न भवति।
लघु-सिद्धान्त-कौमुदी
ऋतश्च संयोगादेः ६५२, ७।२।४३

ऋदन्तात्संयोगादेः परयोः लिङ्सिचोरिड्वा स्यात्तङि। स्तरिषीष्ट, स्तृषीष्ट। अस्तरिष्ट, अस्तृत॥ धूञ् कम्पने॥ ४॥ धूनोति, धूनुते। दुधाव। स्वरतीति वेट्। दुधविथ, दुधोथ॥
न्यासः
ऋतश्च संयोगादेः। , ७।२।४३

ऋकारान्तानामनुदात्तत्वात्? प्रतिषेधे प्राप्ते विकल्पार्थ वचनम्()। "ध्वृषीष्ट" इति। "ध्वृ हूच्र्छने" (धा।पा।१३९)। "भावकर्मणोः" १।३।१३ इत्यात्मनेपदम्()। एवमन्यत्राप्यात्मनेपदं वेदितव्यम्()। पूर्ववत्? कित्त्वाद्गुणाभावः। "स्मृषीष्ट" इति। "स्मृ चिन्तायाम्? (धा।पा।९३३)। "च्योषीष्ट" इति। "च्युङ् छ्यङ् [नास्ति--धा।पा।] ज्युङित्यादि। (धा।पा।९५५,९५६)। अत्र ङित्त्वात्? कत्र्तर्यात्मनेपदम्()। "अकृषत" इति। "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः। अथ संस्कृषीष्ट समस्कृतेत्यत्र कस्मान्न भवति, भवति हि करोतिरत्र "संपर्युपेभ्यः करोतौ भूषणे" (६।१।१३७) इति सुटि कृते संयोगादिः? इत्याह--"संस्कृषोष्ट" इत्यादि। "एकाच उपदेशेऽनुदात्तात्" ७।२।१० इत्यत उपदेशग्रहणमनुवत्र्तते, तेनोपदेशावस्थायां यः संयोगादिस्तत एवैतेन भवितव्यम्(), न च करोतिरुपदेशावस्थायां संयोगादिः, किं तर्हि? तत उत्तरम्(), अतो न भवति। "अभक्तत्वाच्च" इत्यादि। संस्कृषीष्टेत्यत्रायं परीहारः, न समस्कृतेत्यत्र। अम्र ह्रडागमः "तद्भक्तस्तद्ग्रहणेन गृह्रते" (व्या।प।२०) इति अटोऽप्यङ्गग्रहणेन ग्रहणादिति "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते" (व्या।प।२१) इति सुटोऽप्यङ्गग्रहणेन ग्रहणात्? करोतिरपि संयोगादिर्भवत्येव। अङ्गाधिकाराच्चाङ्गावयवोऽत्रि संयोगोऽपि गृह्रते; प्रत्यासत्तेः। न च संस्कृषीष्टेत्यत्राङ्गावयवः संयोगादिः, यश्चाङ्गावयवो नासौ संयोगे भवति, तदिह न भवतीट्प्रसङ्गः। अत्र "सम्पुकानां सत्वम्()" (वा ९३६) इति वचनात् समो मकारस्य सकारः, पूर्वस्यानुनासिकः। समस्कृतेत्यत्र पूर्ववत्? सिचो लोपः। चकार आत्मनेपदानुकर्षणार्थः, तेनोत्तरत्र विधिरविशेषेम भवति; चानुकृष्टस्योत्तरत्राननुवृत्तेः॥
बाल-मनोरमा
ऋतश्च संयोगादः ३५६, ७।२।४३

ऋतश्च संयोगादेः। "लिङ्सिचोरात्मनेपदेषु" इत्यनुवर्तते। "इट् सनि वे"त्त इड्वेति। तदाह-- ऋदन्तादित्यादिना। लुङि परस्मैपदे-- अस्तार्षीत् लुङस्तङि त्वाह--- अस्तरिष्ट अस्तृतेति। "ऋतश्च संयोगादे"रिति इट्पक्षे गुणः। इडभावपक्षे तु "ह्यस्वादङ्गा"दिति सिचो लोपः। कृञ् हिंसायाम्। चकर्थेति। "कृसृभृवृ" इति थल्यपि नित्यमिण्निषेधः। चकृव। क्रियादिति।आशीर्लिङि "रिङ् शयग्लिङ्क्षु" इति रिङ्। कृषीष्टेति। "उश्चे"ति कित्त्वान्न गुणः। अकार्षीदिति।सिचि वृद्धि। रपरत्वम्। अकृतेति। "ह्यस्वादङ्गा"दिति सिचो लोपः। वृञ् वरणे।सेट्। ववार। वव्रतुः। वव्रुः।

तत्त्व-बोधिनी
ऋतश्च संयोगादेः ३११, ७।२।४३

"इट् सनि वे"त्यत इट् वेत्यनुवर्तते। "लिङ्सिचो"रिति सूत्रादात्नेपदेष्विति च। तदाह-- इड्? वा स्यात्तङीति। तङि किम्?। स्तर्यात्। अस्तार्षीत्।