पूर्वम्: ७।२।४५
अनन्तरम्: ७।२।४७
 
सूत्रम्
निरः कुषः॥ ७।२।४६
काशिका-वृत्तिः
निरः कुषः ७।२।४६

निरित्येवं पूर्वात् कुष उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति। निष्कोष्टा, निष्कोषिता। निष्कोष्टुम्, निष्कोषितुम्। निष्कोष्टव्यम्, निष्कोषितव्यम्। निरः इति किम्? कोषिता। कोषितुम्। कोषितव्यम्। निसः इति वक्तव्ये निरः इति निर्देशेन रेफान्तम् उपसर्गान्तरम् अस्ति इति ज्ञाप्यते। तस्य हि निलयनम् इति उपसर्गस्य अयतौ ८।२।१९ इति लत्वं भवति। निसो हि रुत्वस्य असिद्धत्वाल् लत्वं न स्यात्।
बाल-मनोरमा
निरः कुषः ३८७, ७।२।४६

निरः कुषः। "आद्र्धातुकस्येड्वलादे"रित्यनुवर्तते। "स्वरतिसूती"त्यतो वेति च। तदाह-- निरः परादिति। निरकुक्षदिति। इडभावपक्षे "शल" इति क्स इति भावः। अश भोजने। आशेति। द्विहल्त्वाऽभावान्न नुडिति भावः। इष आभीक्ष्ण्ये। तासि "तीषसहे"तीड्विकल्पमाशङ्क्याह-- तीषसहेत्यत्रेति। सहेति शपा निर्देशबलेन भौवादिक एव सहधातुरत्र निर्दिष्टः। तत्साहचर्यात्तौदादिकस्यैव इषेग्र्रहणम्, अकारविकरणसामान्यादिति भावः। इषेस्तकारे श्यन्प्रत्ययादिति। श्यन् प्रत्ययो यस्मादिति बहुव्रीहिः। श्यन्विकरणपठितादिषेस्तकारे परे "तीषसहे"ति विधिर्नेत्यर्थः। इष्णातेस्तकारे इड्विकल्पः फलित इति भावः। प्रूष प्लुषेति। आद्यो दीर्घोपधः। पुष्ट पुष्टौ। पोषितेति। अनिट्सु श्यन्विकरणस्यैव पुषेग्र्रहणादयं सेडिति भावः। "पुषादिद्युतादी"त्यत्र श्यन्विकरमपुषादेरेव ग्रहणादङ् न। खच भूताप्रादुर्भावे। अतिक्रान्तोत्पत्तिरिति। दशममासादौ उत्पत्तियोग्यस्य एकादशादिमासादिषूत्पत्तिरित्यर्थः। खच्ञातीति। नस्य श्चुत्वेन ञ इति भावः। वान्तोऽयमिति। "खव भूतप्रादुर्भावे" इत्येवं दन्त्योष्ठ()आन्तमेके पठन्तीत्यर्थः।

तत्त्व-बोधिनी
निर कुषः ३३८, ७।२।४६

निरः कुषः। "स्वरती"ति सूत्राद्वेत्यनुवर्तते। "आद्र्धधातुकस्ये"डित्यधिक्रियत एव। तदाह---- वलादेरित्यादि। निरः किम्?। कोषिता। कोषितुम्। निरकुक्षदिति। इडभावे क्सः। सहिना साहचर्यादिति। यद्यपि षह षुह चक्यर्थ इति दिवादिरपि सहिरस्ति तथापि सहेति शपा निर्देशाद्भौवादिकेनैव सहिना साहचर्यमित्याहुः।

*इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध। श्यन्प्रत्ययादिति। बहुव्रीहिरयम्। श्यन्प्रत्ययवत इषेस्तकारे परत इड्विकल्पप्रतिषेध इति वार्तिकार्थः। तथा च दैवादिकाद्विकल्पो नेति फलितम्। एवं च "तीषसहे"त्यत्र इष्णातेरपि ग्रहणमिति बोध्यम्। पोषितेति। अनिट्केषु पुष्येति श्यना निर्देशादयं सेडिति भावः।