पूर्वम्: ७।२।६
अनन्तरम्: ७।२।८
 
सूत्रम्
अतो हलादेर्लघोः॥ ७।२।७
काशिका-वृत्तिः
अतो हलादेर् लघोः ७।२।७

हलादेरङ्गस्य लघोरकारस्य इडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर् न भवति। अकणीत्, अकाणीत्। अरणीत्, अराणीत्। अतः इति किम्? अदेवीत्। असेवीत्। न्यकुटीत्, न्यपुटीत्, इत्यत्र अतः इत्यस्मिन्नसति स्थानिनिर्देशार्थमचः इत्येतदनुवर्तयितव्यम्। तत्र अज्लक्षणा वृद्धिरिग्लक्षणा न भवति इति क्ङिति च ७।२।११८ इति प्रतिषेधो न स्यात्। हलादेरिति किम्? म भवानशीत्। मा भवानटीत्। लघोः इति किम्? अतक्षीत्। अरक्षीत्। अथ इह कस्मान् न भवति अचकासीतिति? येन नाव्यवधानम् तेन व्यवहिते ऽपि वचनप्रामाण्यातिति हला व्यवधानम् आश्रितम्, न पुनरचापि व्यवधानम् इति वृद्धिर् न भवति। अथ पुनरेकेन वर्णेन व्यवधानम् अश्रीयते न पुनरनेकेन इति कल्पने शक्यमकर्तुं लघोः इति, अतक्षीतित्यत्र अनेकेन व्यवधानम् इति न भविस्यति? तत् क्रियते विस्पष्टार्थम्। इटि इत्येव, अपाक्षीत्।
लघु-सिद्धान्त-कौमुदी
अतो हलादेर्लघोः ४५९, ७।२।७

हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥ णद अव्यक्ते शब्दे॥ ७॥
बाल-मनोरमा
अतो हलादेर्लघोः १२८, ७।२।७

अतो हलादेः। "सिचि वृद्धिः परस्मैपदेष्वि"त्यनुवर्तते। "नेटी"त्यस्मादिटीति, "ऊर्णोतेर्विभाषे"त्यतो विभाषेति च। तदाह-- हलादेरिति। हलाद्यङ्गावयवस्येत्यर्थः। आदिग्रहणं स्पष्टार्थं, हलः परस्येत्येव सिद्धेः। अखादीत् अखदीदिति। वृद्धौ तदभावे च इट ईटीति सिज्लोपः। अखादिष्टाम्, अखदिष्टामित्यादि। बदेति। स्थैर्यं--स्थिरीभवनम्। पवर्गीयादिरिति। पवर्गतृतीयादिरित्यर्थः। नतु दन्त्योष्ठ()आदिरिति भाव-। बबादेति। "अत उपाधायाः" इति वृद्धिः। बेदतुरिति। अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाऽभावादेत्त्वाभ्यासलोपाविति भावः। बबादेत्यत्र तु पित्त्वेन कित्त्वाऽभावादेत्त्वाभ्यासलोपौ न। बेदिथेति। अकित्त्वेपि "थलि च सेटी"त्येत्वाभ्यासलोपौ। बेदथुः बेद। अथ उत्तमपुरुषणलि "णलुत्तमो वे"ति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याह-- बबाद बबदेति। बेदिव बेदिम। अबादीत् अबदीदिति। "अतो हलादे"रिति वृद्धिविकल्पः। गदेति। व्यक्तवाक्-- मनुष्यकृतशब्दप्रयोगः। जगादेति। चुत्वजश्त्वे। उपधावृद्धिः। वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न। जगदतुः चगदुरित्यादि।

तत्त्व-बोधिनी
अतो हलादेर्लघोः १०२, ७।२।७

अतो हलादेः। इह "सिचि वृद्धि"रिति सूत्रमनुवर्तते। "नेटी"ति सूत्रादिटीति, "ऊर्णोतेर्विभाषे"त्यतो विभाषाग्रहणं च। तदाह-- इडादावित्यादि। वृद्धिर्वा स्यादिति। अतः किम्। अदेवीत्। हलादेः किम्?। मा भवानतीत्। अटीत्। लघोः किम्?। अगर्दीत्। अरक्षीत्। इडादौ किम्?। अपाक्षीत्। परस्मैपदे किम्?। अयतिष्ट। अयतिषाताम्। अचकासीदित्यत्र चकारादकारस्य वृद्धिवारणाय "येन नावयवधान"मिति न्यायेन यद्येकवर्णव्यवधानमेवाश्रीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति शक्यमकर्तुमित्याहुः। तपरकरणं स्पष्टार्थम्। पवर्गीयादिरिति। दन्त्योष्ठ()आदित्वे तु "शसददे"त्येत्वाभ्यासलोपनिषेधाद्बेदतुः बेदिथेत्यादि न सिध्येदिति भावः।